________________
मिच्छोई रागाई समणधम्म नाणाई । नवं नवं सत्तावीसौ नर्व नईऐं उगुणकारा॥१॥" या तु दर्शनस्थिरीकरणार्थ प्रभूतशेषशास्वावगाहनार्थ चारित्रार्थ च सेव्यते सा सामान्यतश्चारित्रनिमित्तायामन्तर्भाव्यते, ततो न सूत्रोक्तभेदसंख्यानियमव्याघातः । सम्प्रत्युद्गमद्वारदोषाणां वक्ष्यमाणोत्पादनाद्वारदोषाणां च यतः सम्भवस्तांस्तदुत्थितान् वैविक्त्येनाहसोलस उग्गमदोसे गिहिणो उ समुट्ठिए वियाणाहि । उप्पायणाएँ दोसे साहूउ समुट्ठिए जाण ॥ ४०३ ॥
व्याख्या-एताननन्तरोक्तान् पोडशसङ्ख्यानुद्गमदोषान् गृहिणः सकाशादुत्थितान् विजानीहि, तथाहि-आधाकर्मादिदोषदुष्ट भक्तादि गृहस्थैरेव क्रियते, ये तूत्पादनाया दोषा वक्ष्यमाणास्तान् 'साधुतः' साधोः सकाशादुत्थितान् जानीहि, धात्रीत्वादीनां साधुभिरेव क्रियमाणत्वात् । तदेवमुक्तमुद्गमद्वारं, सम्प्रत्युत्पादनाद्वारं वक्तव्यं, तत्र प्रथमत उत्पादनामाह
णामं ठवणादविए भावे उप्पायणा मुणेयव्वा । दव्वंमि होइ तिविहा भावंमि उ सोलसपया उ॥ ४०४ ॥
व्याख्या-उत्पादना चतुर्दा, तद्यथा-'णाम'ति नामोत्पादना स्थापनोत्पादना 'द्रव्ये ' द्रव्यस्योत्पादना 'भावे' भावस्योत्पादना च, तत्र नामस्थापने द्रव्यस्योत्पादना च यावन्नोआगमतो भव्यशरीरद्रव्योत्पादना प्रागुक्तगवेषणादिरिव भावनीया, शरीरभव्यशरीरव्यतिरिक्ता तु द्रव्योत्पादना त्रिधा-सचित्तद्रव्योत्पादनाऽचित्तद्रव्योत्पादना मिश्रद्रव्योत्पादना च । भावोत्पादना द्विधा, तद्यथा-आगमतो नोआगमतश्च, तत्रागमत उत्पादनाशब्दार्थज्ञस्तत्र चोपयुक्तः, नोआगमतो भावोत्पादना तु द्विधा, तद्यथा-प्रशस्ताऽप्रशस्ता च, तत्र प्रशस्ता ज्ञानाद्युत्पादना, अप्रशस्ता 'षोडशपदा' वक्ष्यमाणधात्रीदत्यादिषोडशभेदा । तत्र प्रथमतः सचित्तद्रव्योत्पादनां विभावयिषुराह
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org