________________
पिण्डनिर्यु - तेर्मलयगि
रीयावृत्तिः
॥११९॥
नव चैव अढारसगं सत्तावीसा तहेव चउ पन्ना । नउइ दो चेव सया उ सत्तरी होइ कोडीणं ॥ ४०२ ॥
व्याख्या - प्रथमतः कोटयो नव भवन्ति, तद्यथा - स्वयं हननमन्येन घातनमपरेण हन्यमानस्यानुमोदनं, तथा स्वयं पचनमन्येन पाचनमपरेण पच्यमानस्यानुमोदनं, तथा स्वयं क्रयणमन्येन क्रायणमपरेण क्रीयमाणस्यानुमोदनम्, इहाद्याः षडविशोधिकोटयोऽन्तिमास्तु तिस्रो विशोधिकोटयः, एता अपि नवकोटीः कोऽपि रागेण सेवते कोऽपि द्वेषेण, ततो द्विकेन गुणिता अष्टादश भवन्ति, अथर्वैवं ताःकोऽपि मिथ्यादृष्टिः कुशास्त्रसम्पर्कसमुत्थवासनावरातो निःशङ्कं सेवते, कोऽपि सम्यग्दृष्टिः सन् विरतोऽप्यना भोगादिकारणतोऽपरिज्ञानतः, कोऽपि पुनः सम्यग्दृष्टिरपि सन्नविरतत्वेन गार्हस्थ्यमवलम्बमानः, ततो मिथ्यात्वाज्ञानाविरतिरूपेण त्रिकेण नव गुणिताः सप्तविंशतिर्भवति, रागद्वेषौ त्वत्र पृथग्न विवक्ष्येते, यदा तु पृथग् विवक्ष्येते तदा ताभ्यां सप्तविंशतिर्गुणिता चतुष्पञ्चाशद्भवति, तथा ता एव नव कोटयः | कदाचित् पुष्टमालम्बनमधिकृत्य दशविधक्षान्त्यादिधर्मपरिपालनार्थ सेन्यन्ते, यथा दुर्भिक्षे कान्तारे चान्येन फलादिनाऽभ्यवहृतेनाहं देहं धृत्वा क्षान्ति मार्दवमार्जवं यावद्रह्म पालयिष्यामीति हन्ति, एवमन्येन वातनाद्यपि भावनीयं, ततो नव दशभिर्गुणिता जाता नवतिः, इयं च सामान्यतश्चारित्रनिमित्ता, काचित् पुनश्चारित्रनिमित्ता विशिष्टज्ञानलाभसम्भवनिमित्ता च, यथाऽस्मिन् कान्तारादावनेन फलादि - नाऽभ्यवहृतेन देहमहं धृत्वा क्षान्त्यादिकं पालयिष्यामि प्रभूतानि च शास्त्राण्यध्येष्ये इति इन्तीत्यादि, एषा च ज्ञानस्य प्राधान्यविवक्षणात् ज्ञाननिमित्ता भण्यते, काचित्पुनश्चारित्रनिमित्ता दर्शन स्थिरीकरणहेतुशास्त्रार्थपरिज्ञाननिमित्ता च यथाऽस्मिन् कान्तारादावनेन फलादिनाऽभ्यवहृतेन देहं परिपाल्य क्षान्त्यादिकं पालयिष्यामि दर्शनं च निर्मलं विधास्ये इति हन्तीत्यादि, एषा च दर्शनस्य प्राधान्यविवक्षणादर्शननिमित्ताऽभिधीयते, तत एवं त्रिप्रकारा नवतिरिति त्रिभिर्नवतिर्गुण्यते, ततो द्वे शते सप्तत्यधिके कोटीनां भवतः उक्तं च - " रागोई
Jain Education International
For Personal & Private Use Only
कोटीना यादयो
भेदाः
॥११९॥
www.jainelibrary.org