SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ धिकोटिदोषवत् पतितमित्येवंरूपे 'द्रवं' काञ्जिकादि तत्र मध्ये प्रभूतं प्रक्षिप्य पश्चात्पात्रमवनम्य पात्रकर्णैकदेशे च शुद्धभक्तपानरक्षणार्थ करं च दत्त्वा सर्व द्रवं गालयन्ति । तथा तृतीये शुद्धे आर्द्रे तीमनादौ मध्यपतितं शुष्कं कूरवल्लचनकादिरूपमोदनमित्येवंरूपे तत्र तीमनादौ मध्ये 'करं ' हस्तं प्रक्षिप्यौदनादि यद्यावन्मात्रं शक्नोति तावन्मात्रमशठः सन् 'उल्लिंचति' आकर्षति, ततः शेषं तीमनादि कल्पते, तथा 'चरमे ' आर्द्रे आर्द्र पतितमित्येवंरूपे यदि तद्द्रव्यं ' दुर्लभम् ' अन्यत्र न प्राप्यते तत्रोद्देशतस्तावन्मात्रं परित्यजन्ति, शेषं कल्पते, एषा चतुर्भङ्गिका साधूनामसंस्तरणे वेदितव्या, संस्तरणे च सकलमपि परित्यजन्ति । तथा चाह संथरे सव्वमुज्झंति, चउभंगो असंथरे । असढो सुज्झई जेसुं, मायावी जेसु बज्झई ॥ ४०० ॥ व्याख्या – 'संस्तरे' निर्वाहे सति सर्वमपि पात्रस्थितं विशोधिकोटिसंसृष्टमुज्झन्ति, 'असंस्तरे ' अनिर्वाहे पुनः 'चतुर्भङ्गी ' चत्वारोऽनन्तरोक्ता भङ्गाः, सूत्रे च पुंस्त्वनिर्देश आर्षत्वात् कथंभूतास्ते भङ्गाः ? इत्याह-येषु भङ्गेषु 'अशठ: ' अरक्तद्विष्टः सन् वर्त्तमानः शुध्यति -शुद्धिमापद्यते, मायावी च येषु बध्यते । तदेवं विशोध्यविशोधिरूपं कोटिद्वयं समपञ्चमुक्तम्, इदानीं तदेवोपसंहारव्याजेन सङ्क्षेपत आह कोडीकरणं दुविहं उग्गमकोडी विसोहिकोडी य । उग्गमकोडी छक्कं विसोहिकोडी अणेगविहा ॥ ४०१ ॥ व्याख्या — कोटीकरणं 'द्विविधं ' द्विप्रकारं, द्विधा कोटिरित्यर्थः, तद्यथा – उद्गमको टिर्विशोधिकोटिथ, तत्रोद्गमकोटि: 'षट्कम् ' | आधाकर्मिकौद्देशिकान्त्यभेदत्रिकादिषड्भेदाः, विशोधिकोटिः पुनरनेकविधा - ओघौदेशिकादिरूपा । सम्प्रत्यन्यथा कोटीः प्रतिपादयति Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy