SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ अभिहडे उन्भिन्ने मालोहडे इय । अच्छिज्जे अणिसिटे पाओयर कीय पामिचे ॥२॥सुहमा पाइडियावि य ठवियगपिंडो य जो भवे दुविहो । सव्वोवि एस रासी विसोहिकोडी मुणेयन्वो ॥३॥" अत्र विधिमाह-'विगिंच जहसत्ति' अनया विशोधिकोव्या यत् संस्पृष्टं । || भक्तं पानं वा तद्यथाशक्ति विगिञ्च परित्यज, इयमत्र भावना-भिक्षामटता पूर्व पात्रे शुद्ध भक्तं गृहीतं, ततस्तत्रैवानाभोगादिकारण वशतो विशोधिकोटिदोषदुष्टं गृहीतं, पश्चाच्च कथमपि ज्ञातं-यथैतद्विवक्षितं विशोधिकोटिदोषदुष्टं मया गृहीतमिति, ततो यदि तेन विनापि निर्वइति तर्हि सकलमपि तद्विधिना परिष्ठापयति , अथ न निर्वहति तदा यदेव विशोधिकोटिदोषदुष्टं तदेव तावन्मात्रं सम्यक् परिज्ञाय | परित्यजति, यदि पुनरलक्षितेन सदृशवर्णगन्धादितया पृथक् परिज्ञातुमशक्येन मिश्रितं भवति यद्वा 'द्रवेण' तक्रादिना तदा सर्वस्यापि तस्य विवेकः, कृते च सर्वात्मना विवेके यद्यपि केचित्सूक्ष्मा अवयवा लगिता भवन्ति तथापि तत्र पात्रेऽकृतकल्पेऽप्यन्यतः परिगृह्णन शुद्धो यतिः, त्यक्तभक्तादेविंशोधिकोटित्वाद्, विवेकश्चतुर्दा भवति, तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतश्च, तथा चाह दव्वाइओ विवेगो दव्वे जं दव्व जं जहिं खेत्ते । काले अकालहीणं असढो जं परसई भावे ॥ ३९६ ॥ व्याख्या-द्रव्यादिकः' द्रव्यक्षेत्रकालभावविषयो विवेकः, तत्र यद्रव्यं परित्यजति स द्रव्यविवेकः, तथा परित्याज्यं यत्र क्षेत्रे| परित्यज्यते स क्षेत्रविवेकः, क्षेत्रे विवेकः क्षेत्रविवेक इति व्युत्पत्तेः, तथा यद्विशोधिकोटिदोषदुष्टमकालहीन-शीघ्रं परित्यज्यते एष कालतो विवेका, इह यदैव दोषदुष्टं भक्तादिपरिज्ञातं तदैव तत्कालविलम्बाभावेन परित्यक्तव्यं, परित्यागबुद्धया वा पृथग्-भिन्ने स्थाने कर्त्तव्यमन्यथा भावतस्तत्परिग्रहात्संयमहानिप्रसक्तेः, तत उक्तमकालहीनमिति , तथा यत् ' अशठः' अरक्तद्विष्टः सन् दोषदुष्टं पश्यति दृष्ट्वा Jain Education International For Personal & Private Use Only Ww.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy