________________
सार्थमानुषाणां बलादाच्छिद्य भक्तादि प्रयच्छन्ति तर्हि न ग्राह्य, यतो मा भूत 'निच्छोभः' सार्थानिष्काशनं एकानेकसाधनां तेभ्यो भक्तादिव्यवच्छेदो वा, यदि पुनस्तेऽपि साथिका स्तेनैबेलाद्दाप्यमाना एवं ब्रुवते, यचास्माकमहो घृतसक्तुदृष्टान्त उपातिष्ठत, घृतं हि सक्तुमध्ये प्रक्षिप्तं विशिष्टसंयोगाय जायते, एवमस्माकमप्यवश्यं चौरैर्ग्रहीतव्यं, ततो यदि चौरा अपि युष्मभ्यं दापयन्ति ततो महानस्माकं समाधिरिति, तत एवं सार्थिकैरनुज्ञाताः साधवो दीयमानं गृहन्ति, पश्चाच्चौरेष्वपगतेषु भूयोऽपि तद्रव्यं गृहीतं तेभ्यः समर्पयन्ति, यथा तदानी चौरप्रतिभयादस्माभिर्गृहीतं, सम्पति ते गतास्तत एतदात्मीयं द्रव्यं यूयं गृह्णीयति, एवं चोक्ते सति यदि तेऽपि समनुजानते यथा-युष्मभ्यमेतदस्माभिर्दत्तमिति तर्हि भुञ्जते, कल्पनीयत्वादिति । अनेन 'कप्पणुनायं' इत्यवयवो व्याख्यातः । तदेवमुक्तमाच्छेद्यद्वारम् , इदानीमनिसृष्टद्वारमाह__ अणिसिहॅ पडिकुटुं अणुनायं कप्पए सुविहियाणं । लड्डग चोल्लग जंते संखडि खीरावणाईसु ॥ ३७७ ॥
___व्याख्या-निसृष्टम्-अनुज्ञातं तद्विपरीतमनिसृष्टमननुज्ञातमित्यर्थः, तत् 'प्रतिकृष्टं' निराकृतं तीर्थकरगणधरैः, अनुज्ञातं पुनः कल्पते सुविहितानां, तच्चानिसृष्टमनेकधा, तद्यथा-'लड्डुकविषयं ' मोदकविषयं, तथा 'चोल्लकविषयं' भोजनविषयं, 'यन्त्रे' इति । कोल्हकादिघाणकविषयं, तथा 'संखडिविषयं' विवाहादिविषयं, तथा 'क्षीरविषयं' दुग्धविषयं, तथा आपणादिविषयम्, आदिशब्दाहादिविषयमवसेयम् , इयमत्र भावना-इह सामान्यतोऽनिसृष्टं द्विधा, तद्यथा-साधारणानिसृष्टं भोजनानिसृष्टं च, तत्र भोजनानिसृष्टं चोल्लकशब्देनोक्तं, साधारणानिसृष्टं तु शेषभेदैरिति । तत्र मोदकविषयसाधारणानिसृष्टोदाहरणं गाथाचतुष्टयेनाह
बत्तीसा सामन्ने ते कहिँ हाउं गयत्ति इअ वुत्ते । परसंतिएण पुन्नं न तरसि काउंति पच्चाह ॥ ३७८ ॥
Jain Education
M
o ral
For Personal & Private Use Only
ww.jainelibrary.org