________________
पिण्डनियुकेर्मळयगिरीयावृत्तिः
॥११२॥
भक्तादिव्यवच्छेदः, तथा ते रुष्टाः सन्तो यः पूर्वमुपाश्रयो दत्तः तस्मानिष्काशयन्ति, आदिशब्दात्खरपरुषाणि भाषन्ते इति परिगृह्यते।१४आच्छे. तथा तस्य उपाश्रयस्यालाभे यत् किमपि कष्टं प्राप्नुवन्ति तदप्याच्छेद्यादाननिमित्तमिति दोषः । सम्पति स्तेनाच्छेद्यं भावयति- घे दोषे स्त
तेणो व संजयट्ठा कलुणाणं अप्पणो व अट्ठाए । वोच्छेय पओसं वा न कप्पई कप्पणुन्नायं ॥ ३७४॥ नाच्छेचं व्याख्या-इह स्तेना अपि केचित् संयतान् प्रति भद्रका भवन्ति, संयता अपि कापि दरिद्रसार्थेन सह व्रजन्ति, ततस्तान् भिक्षा-1 वेलायां भिक्षामप्राप्नुवतो दृष्ट्वा संयतानामर्थाय यद्वा वस्याऽऽत्मनोऽर्थाय तेषां 'करुणानां ' कृपास्थानानां दरिद्रसार्थमानुषाणां सकाशादाच्छिद्य यद्ददाति स्तेनः तत् स्तेनाच्छेचं द्रष्टव्यं, तच साधूनां न कल्पते, यतस्तस्मिन् गृह्यमाणे येषां सम्बन्धि तद्रव्यं ते पूर्वोक्तप्रकारेणैकानेकसाधूनां भक्तादिव्यवच्छेदं कुर्वन्ति, यद्वा-'प्रद्वेष ' रोषमुपयान्ति, तथा च सति सार्थानिष्काशनं कालान्तरेऽपि तेषां । पार्थे उपाश्रयापतिलम्भ इत्यादयो दोषाः, यदि पुनस्तेऽपि सार्थिका वक्ष्यमाणप्रकारेणानुजानन्ते तहिं कल्पते । एतदेव गाथाद्वयेन स्पष्टं भावयति
संजयभद्दा तेणा आयंती वा असंथरे जइणं । जइ देति न घेत्तव्वं निच्छुभवोच्छेउ मा होज्जा ॥ ३७५ ॥ - ___घयसत्तुयदिढतो समणुन्नाया व घेत्तुणं पच्छा । देति तयं तेसिं चिय समणुन्नाया व भुंजंति ॥ ३७६ ॥
व्याख्या-इह स्तेना अपि केचित् संयतभद्रका भवन्ति, साधवश्च कदाचिदरिद्रसार्थेन सह कापि व्रजन्ति, ततस्तेषां साधूनां । भिक्षावेलायाम् ' असंस्तरे' अनिर्वाहे ते स्तेनाः स्वग्रामाभिमुखं प्रत्यागच्छन्तो वाशब्दात् स्वग्रामादन्यत्र गच्छन्तो वा यदि तेषां दरिद्र
॥११॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org