SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ व्याख्या-इह स्वगृहमात्रनायकः प्रभुः ग्रामादिनायकः स्वामी चारभटा वा-स्वामिभटा वा, तेऽपि स्वामिग्रहणेन गृह्यन्ते । संयतान् दृष्टा तेषां संयतानामर्थाय 'करुणानां कृपास्थानानां दरिद्रकौटुम्बिकादीनां सम्बन्ध्याऽऽच्छिद्य यद्ददाति तत्साधूनां न कल्पते । एतदेव व्यक्तं भावयति आहारोवहिमाई जइअट्ठाए उ कोइ अच्छिदे । संखडि असंखडीए तं गिण्हते इमे दोसा ॥ ३७२ ॥ . व्याख्या-यदि कोऽपि स्वामी भटो वा यतीनामर्थाय केषाश्चित्सम्बन्ध्याहारोपध्यादिकं 'सङ्गड्या' कलहकरणेन 'असङ्खड्या | कलहाभावेन, कोऽपि हि तत्सम्बन्धिनि बलादाच्छिद्यमाने कलहं करोति, कोऽपि स्वामिभयादिना न किमपि वक्ति, तत उक्तं सङ्खड्यासङ्खड्या वेति, बलादाच्छिद्य यतिभ्यो ददाति तद्यतीनां न कल्पते । यतस्तद्गृह्नति यताविमे दोषाः ॥ तानेवाह__ अचियत्तमंतरायं तेनाहड एगणेगवोच्छेओ। निच्छुभणाइदोसा तस्स अलंभे य जं पावे ॥ ३७३ ॥ व्याख्या-येषां सत्कमाच्छिद्य बलात् स्वामिना दीयते तेषाम् 'अचियत्तम् । अप्रीतिरुपजायते, तथा तेषाम् ' अन्तरायं' दीयमानवस्तुपरिभोगहानिः कृता भवति, तथेत्थं साधूनामाददानानां स्तेनाहृतं भवति-अदत्तादानदोषो भवति, दीयमानवस्तुनायकेनाननुज्ञातत्वात् , तथा येषां सम्बन्धि स्वामिना बलादाच्छिद्य दीयते ते कदाचित्मद्विष्टाः सन्तोऽन्यदाऽपि तस्यैकस्य साधोभक्तपानव्यवच्छेदं कुर्वन्ति, तथाऽनेन सम्पति बलादस्माकं भक्तादि गृहीतं ततः कालान्तरेऽप्यस्मै न किमपि दातव्यमस्माभिरिति, अथवा सामा-| न्यतः प्रदेषमुपयान्ति, यथाऽनेन संयतेन बलादस्माकं भक्तादि गृह्यते तस्मात्कालान्तरेण न कस्मायपि संयताय दातव्यमित्यनेकसाधूनां Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy