________________
पिण्डनियुतेर्मळयगिरीयावृत्ति
॥११॥
मिदानीमागतः, परं सम्पति त्वद्वचनामृतपरिसेकत उपशशाम मे सर्वः कोपानलः, ततो गृहाण त्वमेवेदं दुग्ध, मुक्तश्चाक्षतप्राणो मया, परं भूयो १४आच्छे |ऽप्येवमाच्छेद्य न ग्रहीतव्यमिति निवृत्तो गोपः, स्वस्थानं च गतः साधुरिति । सूत्रं सुगम, नवरं 'पयभाणूणं 'ति विभक्तिलोपात्पयो- घे गोपाल भाजनमूनं दृष्ट्वा 'भाई' इति भोग्या-भार्या इत्यर्थः, 'रोवे 'त्ति रुदन्ति, 'हंदी 'ति आमन्त्रणे, तन्निबन्धात् त्वदीयजिनदासा- दृष्टान्तः ख्यप्रभुनिबन्धाद्रहीतं, ततः स पाह-मुक्तोऽसि सम्पति मा द्वितीयं वारमेवं गृहीथाः । सम्पति गोपालविषय एव ' अचियत्तसंखडाई' इत्येतद्व्याचिख्यासुराह
नानिव्विर्ट लब्भइ दासीवि न भुज्जए रिते भत्ता । दोन्नेगयरपओसं जं काही अंतरायं च ॥३७०॥ व्याख्या-प्रभुणा बलादाच्छिद्यमाने दुग्धे कोऽपि गोपो रुटः प्रभोः सम्मुखमेवमपि ब्रुवाणः सम्भाव्यते, यथा किमिति मदीयं दुग्धं बलादागृह्णासि ?, न खलु 'अनिष्टम् । अनुपार्जितमिह किमपि लभ्यते, ततो मया स्वशरीरायासबलेनेदं दुग्धमुपार्जितम् , अतः कथमत्र प्रभवसि ?, न हि दास्यप्यास्तामुत्तमवेश्यादिकमित्यपिशब्दार्थः, 'भक्ताहते ' भक्तपानमृते, भरणपोषणमृते इत्यर्थः, 'भुज्यते | भोक्तुं लभ्यते, ततो मदीयं भोजनमिदम् , अतो न तेऽत्र प्रभुत्वावकाशः, एवं चोक्ते सति कदाचिद्वयोरपि प्रभुगोपालकयोः परस्परमेकतरस्य वा द्वितीयस्योपरि प्रद्वेषो वर्द्धते, प्रद्वेषे च वर्द्धमाने यत् करिष्यति धनहरणमारणादिकं तत्स्वयमेवाऽऽच्छेद्यादाने दोषत्वेन । विज्ञेयं । तथा यच्चान्तरायं गोपालकस्य तत्कुटुम्बस्य च तदपि दोषत्वेन विज्ञेयमिति । तदेवं 'गोवालपइ' इति व्याख्यातम् । एतदनुसा- ॥१११॥ रेण च भृतकादावपि यथायोगमप्रीत्यादिकं सम्भावनीयमिति । सम्पति स्वामिविषयमाच्छेद्यं विभावयिषुराह
सामी चारभडा वा संजय दट्टण तेसि अट्ठाए। कलुणाणं अच्छेज्जं साहण न कप्पए घेत्तुं ॥ ३७१ ॥
Jain Education International
For Personal & Private Use Only
wilw.jainelibrary.org