________________
पडियरणपओसेणं भावं नाउं जइस्स आलावो । तन्निब्बंधा गहियं हंदि स मुक्कोसि मा बीयं ॥ ३६९॥
व्याख्या-वसन्तपुरं नाम नगरं, तत्र जिनदासो नाम श्रावकः, तस्य भार्या रुक्मिणी, जिनदासस्य गृहे वत्सराजो नाम गोपालः, स चाष्टमे अष्टमे दिने सर्वासामपि गोमहिषीणां दुग्धमादत्ते, तथैव तस्य प्रथमतो धृतत्वात् , अन्यदा च साधुसनटको भिक्षायै तत्रागमत, इतश्च तस्मिन् दिने गोपालस्य सर्वदुग्धादानवारकः, ततस्तेन सर्वा अपि गोमहिष्यो दुग्धा महती पारिर्दुग्धस्यापूर्णा, जिनदासश्च जिनवचनभावितान्तःकरणतया साधुसङ्घाटकं परमपात्रभूतमायातमवलोक्य भक्तितो यथेच्छं भक्तपानादिकं तस्मै दत्तवान् , ततो 'दुग्धान्तानि भोजनानी ति परिभाव्य भक्तितरलितमनस्कतया गोपालस्य दुग्धं बलादाच्छिद्य कतिपयं ददौ, ततः स गोपालो मनसि साधोरुपरि मनाक् प्रद्वेषं ययौ, परं प्रभुभयान्न किमपि वक्तुमीशितः, ततस्तत्पयोभाजनं कतिपयन्यूनं स्वगृहे नीतवान्, तच्च तथाभूतं न्यूनमवलोक्य भार्या सरोष पृष्टवती, किमिति न्यूनमिदं पयोभाजनम् ? इति, ततो गोपेन यथावस्थिते कथिते साऽपि साधुमाक्रोष्टुं प्रावर्त्तत, चेटरूपाणि च दुग्धं स्तोकमवलोक्य किमस्माकं भविष्यतीति रोदितुं प्रवृत्तानि, तत इत्थं सकलमपि स्वकुटुम्बमाकुलमवेत्य स गोपः सञ्जातसाधुविषयमहाकोपः साधु व्यापादयितुं चलितवान्, दृष्टश्च भिक्षार्थ परिभ्रमन् कापि प्रदेशे साधुः, ततः प्रधावितो लकुटमुत्पाद्य साधोः पृष्ठतः, साधुनापि कथमपि पश्चादवलोकने तं गोपं तथाभूतं कोपारुणनयनमालोक्य परिभावयामासे, नूनमेतस्य दुग्धं बलादा|च्छिद्य जिनदासेन मह्यं ददे तेन मम मारणार्थमिव कुपित एष समागच्छन्नुपलक्ष्यते, ततः साधुर्विशेषतः प्रसन्नवदनो भूत्वा तस्यैव सम्मुखं प्रत्यागन्तुं पावर्त्तत, बभाण च यथा-भो भोः क्षीरगृहनियुक्तक ! तव प्रभुनिबन्धेन मया तदानीं दुग्धमा सम्पति तु गृहाण त्वमात्मीयं दुग्धमिति, एवं चोक्ते सत्युपशान्तकोपः साधुं प्रति स्वस्वभावं प्रकटितवान्, यथा भोः साधो ! सुविहित ! तव मारणार्थमह
dan Education International
For Personal & Private Use Only
www.jainelibrary.org