________________
पिण्डनिर्युतेर्मलयगि रीयावृत्तिः
॥११०॥
एतेन चोर्ध्वाधोमालापहृतव्याख्यानेन तिर्यगपि मालापहृतं व्याख्यातं द्रष्टव्यं तत्राप्ययं कल्प्या कल्प्यविधिः – यत्पादस्याधो मञ्चिकादि | दत्त्वा गवाक्षादौ स्थितं दानाय बाहुं प्रसार्य महता कष्टेन समाकर्षति तन्न कल्पते, यच भूमौ स्वभावस्था गवाक्षादौ स्थितमयत्नेन किञ्चिद्वाहुं प्रसार्य साधोर्दानाय गृह्णाति तन्मालापहृतं न भवति, अतस्तत्कल्पते । तदेवमुक्तं मालापहृतम्, अथाऽऽच्छेद्यद्वारमाह
1
अच्छिज्जंपि य तिविहं पभू य सामी य तेणए चेत्र । अच्छिज्जं पडिकुटुं समणाण न कप्पर बेत्तुं ॥ ३६६ ॥ व्याख्या– आच्छेद्यमपि प्रागुक्तशब्दार्थ ' त्रिविधं ' त्रिप्रकारं तद्यथा - ' प्रभौ' प्रभुविषयं प्रभुरूपकर्त्राश्रितमित्यर्थः, एवं 'स्वामिनि' स्वामिविषयं स्तेनकविषयं च । एतच्च त्रिविधमप्याच्छेयं तीर्थकरगणधरैः ' प्रतिकुष्ठं ' निराकृतम्, अतः श्रमणानां तग्रहीतुं न कल्पते । तत्र प्रथमतः प्रभुविषयं भावयति
+
गोवालय भएर पुत्ते य धूय सुहाए । अचियत्त संखडाई केइ पओसं जहा गोवो ॥ ३६७ ॥
व्याख्या – प्रभुकर्त्तृकमाच्छेद्यं 'गोपालके' गोपालविषयं, तथा 'भृतकः ' कर्मकरस्तद्विषयम्, अक्षरको -व्यक्षरकाभिधानो दास इत्यर्थः, तद्विषयं पुत्रविषयं दुहितृविषयं स्तुपाविषयम् उपलक्षणमेतत् भार्यादिविषयं च । अत्रैव दोषमाह - ' अचियत्त' इत्यादि, 'अचियत्तम् ' अप्रीतिः 'सङ्घडं ' कलहः, आदिशब्दादात्मघातादिपरिग्रहः, केचित्पुनः प्रद्वेषमपि साधौ गच्छन्ति यथा 'गोपः ' गोपालकः । एनमेव दृष्टान्तं गाथाद्वयेन भावयति —
गोवपओ अच्छेत्तुं दिनं तु जइस्स भइदिणे पहुणा । पयभाणूणं दहुं खिंसइ भोई रुवे चेडा ॥ ३६८ ॥
Jain Education International
For Personal & Private Use Only
१४आच्छेद्यभेदाः
॥११०॥
www.jainelibrary.org