________________
।
भूमिगृहादाववतरणं-प्रवेशः, तत्राधोऽवतरणेन यद्दीयते तदप्युपचारादधोऽवतरणं, तथा 'कुंभादिषु' कुम्भोष्ट्रिकाप्रभृतिषु यतते देयं तदुभयम्-ऊर्ध्वाऽधोमालापहृतस्वभावं भणितं तीर्थकरादिभिः, तथाहि-बृहत्तरोच्चैस्तरकुम्भादिमध्यव्यवस्थितस्य देयस्य ग्रहणाय येन दात्री पाष्र्युत्पाटनादि करोति तेनोर्ध्वमालापहृतं, येन त्वधोमुखं बाहुमतिप्रभूतं व्यापारयति तेनाधोमालापहृतं, दोषा अत्रापि पूर्ववद्भावनीयाः।। अत्रैवापवादमाह___ददर सिल सोवाणे पुव्वारूढे अणुच्चमुक्खित्ते । मालोहडं न होई सेसं मालोहडं होइ ॥ ३६४ ॥
व्याख्या-'दर्दरः, निरन्तरकाष्ठफलकमयो निःश्रेणिविशेषः 'शिला' प्रतीता 'सोपानानि' इष्टकामयान्यवतरणानि, एतान्यारुह्य यद्ददाति तन्मालापहृतं न भवति, केवलं साधुरप्येषणाशुद्धिनिमित्तं प्रासादस्योपरि दर्दरादिना चटति, अपवादेन भूस्थोऽप्यानीतं । गृह्णाति, तथा पूर्वारूढः साध्वागमनादग्रतः स्वयोगेन निःश्रेण्यादिना प्रासादोपरि चटितो दाता यद्ददाति साधुपात्रके, कथंभूते ? इत्याहअनुच्चोत्क्षिप्ते, किमुक्तं भवति ?-भूमिस्थः संयतो दृष्टेरधः पात्रं धारयन् यावत्ममाणे उच्चैःस्थाने स्थितो दाता पात्रे हस्तं प्रक्षिप्य ददाति । तावत्ममाणे पूर्वारूढो यद्ददाति तन्मालापहृतं न भवति, शेषतु सर्वमप्यनन्तरोक्तं मालापहृतमवसेयम् । इहानुचोरिक्षप्तोचोत्क्षिप्तयोः स्वरूपमाह
तिरियायय उज्जगएण गिण्हई जं करेण पासंतो। एयमणच्चक्खित्तं उच्चक्खित्तं भवे सेसं ॥ ३६५ ॥
व्याख्या-तिर्यग् आयतेन-दीर्पण 'ऋजुकेन ' सरलेन 'करण' हस्तेन पात्रं दृष्टया निमालयन् यद्गृह्णाति तदित्थंभूतं पात्रमनुचोक्षिप्तमुच्यते, शेषं पुनरुचोक्षिप्त, इयमत्र भावना-यदृष्टरुपरि बाहुं प्रसार्य देयवस्तुग्रहणाय पात्रं ध्रियते तत्तथा ध्रियमाणमुच्चोक्षिप्तमिति,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org