SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ आसंदिपीढमंचकजंतोडूखल पडंत उभयवहे । वोच्छेय पओसाई उड्डाहमनाणिवाओ य ॥ ३६१ ॥ व्याख्या – ' आसंदी ' मञ्चिका ' पीठं ' गोमयादिमयमासनं ' मञ्चकः प्रतीतः ' यन्त्रं ' व्रीह्यादिदलनोपकरणम्, 'उडूखल: ' प्रतीतः, एतेष्वारुह्य, उपलक्षणमेतत्, पाष्णीं चोत्पाव्य ऊर्ध्वविलगितसिक्ककादिस्थितमोदकादिग्रहणे कथमपि यदि मञ्चकादिहसनतो दात्री निपतति तर्हि ' उभयवधः ' दात्र्याः पृथिव्यादिकायादीनां च विनाशः । तत्र दात्र्या हस्तादिभङ्गतो यदिवा विसंस्थुलपतनतः कथमध्य|| स्थानाभिघातसम्भवात्प्राणव्यपरोपणमपि तया च निपतन्त्या भूम्याद्याश्रितानां पृथिवीकायादीनामपि विनाशः, यथैतस्मै भिक्षामहं ददती प्रागपि महत्यनर्थे पतितेति न कोऽप्यस्मै दास्यतीति तद्गृहे तद्द्रव्यान्यद्रव्यव्यवच्छेदः, तथा मुण्डेनानेन परमार्थतः पातितेति कस्यापि गृहस्वामिनः साधुविषयः प्रद्वेषोऽपि भवति, आदिशब्दात्ताडनादिपरिग्रहः, प्रद्वेषदग्धो हि कोऽपि कोपान्धतया ताडनमपि कुर्यात्, कोऽपि निर्भर्त्सनं, कोऽपि वधमपि, तथा च प्रवचनस्योड्डाह :- खिसा यथा - साध्वर्थमेषा भिक्षामाहरन्ती परासुरभूत्, तस्मान्नामी साधवः कल्याणकारिणः, लोके चाज्ञानवादः - एवंविधमपि दात्र्या अनर्थमेते न जानन्तीत्येवं मूर्खताप्रवादः, तस्माज्जघन्यमपि मालापहृतमवश्यं परिहर्त्तव्यं ॥ तदेवमुक्तो जघन्यस्य मालापहृतस्य सदोषो दृष्टान्तोऽन्येऽपि च दोषाः, सम्प्रत्युत्कृष्टस्य तानाह— एमेव य उक्कोसे वारणनिस्सेणि गुब्विणीपडणं । गब्भित्थिकुच्छिफोडण पुरओ मरणं कहण बोही ॥ ३६२ ॥ व्याख्या – जयन्तीनाम पुरी, तत्र सुरदत्तो नाम गृहपतिः, तस्य भार्या वसुन्धरा, अन्यदा च तद्गृहे गुणचन्द्राभिधः साधुर्भिक्षार्थ प्राविशत्, तं च प्रशान्तमन समिहपरलोकनिःस्पृहं मूर्त्तं धर्ममिव समागच्छन्तमवेक्ष्य सुरदत्तो वसुन्धरामभिहितवान - यथा देहि साधवे Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy