SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ पिण्डनियु- यक्षदिन्नेन तस्मायपि तानेव मोदकान् वसुमती दापिता, सा तस्मिन्नेव सिककविलगिते घटे मोदकानादातुमचालीत , घटे च महोत्तमद्रव्य- उद्गमैषणातेर्मलयगि- निष्पन्नमो दकगन्धाघ्राणवशतः कथमपि भुजङ्गमः समागतोऽवतिष्ठते, वसुमती चोत्पाट्य पाणी पादाग्रतलभरेण यावन्मोदकघटे कड्- यां१२ उरीयावृत्तिः केल्लिपल्लवोपमं करं प्रक्षिपति तावद्भुजङ्गमः कामुक इव सादरं तं प्रत्यगृह्णात्, ततो हा! दष्टा दष्टेति पूत्कारं कुर्वती भूमौ निपपात, ददृशे द्भिन्नदोषे च यक्षदिन्नेन फूत्कारं कुर्वन् दन्दशूकः, ततस्तत्क्षणादेव समाहृताः परममन्त्रवादिनः, समानीतानि च नानाविधानि भेषजानि, ततोऽद्या- यक्षदत्तह॥१०॥ प्यायुरत्रुटितमिति मन्त्रौषधप्रभावतः सा नीरुग्बभूव, समाजगाम च भूयोऽप्यपरस्मिन् दिने स एव धर्मरुचिः संयतो भिक्षायै, उपालेभे च । ष्टान्त: यक्षदिन्नेन यथा दयाप्रधानो धर्मस्तत्ति भोः साधो ! सुविहित तव तदानीं सर्प पश्यतोऽप्युपेक्षा प्रावर्तिष्ट ?, स पाह-नाहमद्राक्षं तदानीं | दन्दशूकं, केवलमयमस्माकं सार्वज्ञ उपदेशो यथा मा ग्राहिषुः साधवो ! मालापहृतं भिक्षामिति, ततोऽहं प्रतिनिवृत्तः, एवं चोक्ते - यक्षदिन्नः वचेतसि चिन्तयामास-अहो ! निरपायो भगवता निरुपादेशि भिक्षूणां धर्मः, य एव चेत्थं निरपायं धर्ममुपदिशति स्म स हाएव सर्वज्ञो न खलु सुधाभ्यवहारमन्तरेण सुधोद्गार उज्जृम्भते, एवं न यावतज्ञेयव्यापिज्ञानमन्तरेणेत्थं सकलकालमनपायिनो धर्मस्यो पदेशप्रवृत्तिः, बुद्धिप्रागल्भ्ये हि वचसि प्रागल्भ्यमुपालम्भि तस्मात्स एव सर्वज्ञ इति, इत्थं च विचिन्त्य भक्तिवशोच्छलितपुलकजालोपशोभिततनुः सादरं धर्मरुचिश्रमणमवन्दत, वन्दित्वा च जिनप्रणीतं धर्म पप्रच्छ, स च कथयामास सङ्केपतः, ततो जिनप्रणीतवाक्यामृतर- moon सास्वादतस्तेषामवजगाम सकलमपि मायासूनवीयादिसम्पादितकुवासनामयं गरलं, पश्यति च यथावस्थितानि हेयोपादेयानि वस्तूनि, प्रमोदते च जात्यन्ध इव चक्षुाभे सविशेषतरं, ततो मध्याह्ने विशेषतो गुरुसमीपे समागत्य धर्म श्रुत्वा जातसंवेगौ दम्पती अपि प्रवज्यां प्रपेदाते । सूत्रं सुगम | सम्प्रत्यस्मिन्नेव जघन्ये मालापहृतेऽन्यानपि दोषानभिधित्सुराह Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy