________________
चोत्याटिताभ्यामविलगितोचसिक्ककादिस्थितं दाच्या दृष्टगोचरं यद्दीयते तज्जयन्यं मालापहृतं, 'तविपरीतं ' जयन्यविपरीतं बृहन्निःश्रेण्यादिकमारुह्य प्रासादोपरितलादानीय दीयते तदुत्कृष्टं मालापहृतं । सम्पत्यनयोरेव दृष्टान्ती सदोषी वक्तुकाम आह| भिक्खू जहन्नगंमी गेरुय उक्कोसगंमि दिलुतो । अहिडसणमालपडणे य एवमाई भवे दोस्सा ॥ ३५८ ॥
व्याख्या-जघन्ये मालापहृते भिक्षुर्वन्दको दृष्टान्तः, उत्कृष्ट 'गेरुकः' कापिलः, तत्र जघन्ये मालापहृते 'अहिदशन' सर्पदशनम् , उत्कृष्ट मालात्पतनमित्येवमादयो दोषा अभूवन् ॥ तत्र भिक्षुदृष्टान्तं गाथाद्वयेनाह___ मालाभिमुहं दट्टण अगारिं निग्गओ तओ साहू । तच्चन्निय आगमणं पुच्छा य अदिन्नदाणन्ति ॥ ३५९ ॥ __ मालंमि कुडे मोयग सुगंध अहि पविसणं करे डक्का । अन्नदिण साहु आगम निदय कहणा य संबोही ॥३६०॥
व्याख्या-जयन्तपुरं नाम नगरं, तत्र यक्षदिन्नो नाम गृहपतिः, तस्य भार्या वसुमती, अन्यदा च तद्हे धर्मरुचिर्नाम संयतो भिक्षार्थ मविवेश, तं च नियमितेन्द्रियमरक्तद्विष्टमेषणासमितमवलोक्य समुत्पन्नविशिष्टदानपरिणामेन यक्षदिनेन वसुमती सादरं बभणे, यथा। देहि साधवेऽस्मै अमुकान् मोदकानिति, तेच मोदका ऊर्ध्व विलगितोचसिक्कामध्ये व्यवस्थिते घटेऽवतिष्ठन्ते, ततः सा तदहणार्थमुत्थिता, साधुश्च तां मालापहृतां भिक्षामवबुध्यमानस्तद्हानिर्जगाम । ततस्तत्कालं तस्मिन्नेव गृहे भिक्षायै भिक्षुरागमत् , पप्रच्छ च तं यक्षदिनो यथा कि भोः?[समं] तेन सिककादानीय!दीयमाना भिक्षा नजगृहे, ? ततः स प्रवचनमात्सर्यादेवमुवाच-अदत्तदाना अमीखलु वराकास्ततो न लभन्ते । पूर्वकर्मविनियोगतो युष्मादृशामीश्वराणां गृहेषु स्निग्धमधुरादिकं भोजनं भक्तिं, किन्तु तैर्दुगतगृहेष्वन्तप्रान्तादिकं लन्ना भोक्तव्यमिति, ततो
Jain Education Inter
nal
For Personal & Private Use Only
www.jainelibrary.org