SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ ___ दाणे कयविक्कए वा होई अहिंगरणमजयभावरस । निवयंति जे य तहियं जीवा मुइयंगमूसाई ॥ ३५३ ॥ व्याख्या-दाने क्रय विक्रये वाऽनन्तरोक्तस्वरूपे प्रवर्त्तमाने साधोः 'अयतभावस्य' अयतोऽशुद्धाहारापरिहारकत्वेन जीवरक्षणरहितः भावः-अध्यवसायो यस्य स तथा तस्य ' अधिकरणं' पापप्रवृत्तिरुपजायते, तथा तस्मिन् कुतुपादिमुखे उद्घाटिते ये जीवा मुइङ्गमूषकादयो निपतन्ति निपत्य च विनाशमाविशन्ति तदप्यधिकरणं साधोरेव । सम्पति ते चेव कवाडंमि' इत्यवयवं व्याचिख्यासुराहजहेव कंभाइस पुवलित्ते, उब्भिज्जमाणे य हवंति काया। ओलिंपमाणेवि तहा तहेव, काया कवाडंमि विभासियव्वा ३५४ | व्याख्या-यथैव 'कुम्भादौ ' घटादौ, आदिशब्दात्कुतुपादिपरिग्रहः, पूर्वलिप्ते उद्भिद्यमाने 'कायाः' पृथिवीकायादयो विराध्यमाना भवन्ति, उपलक्षणमेतत् , तेन दानक्रयविक्रयाधिकरणप्रवृत्तिश्च भवति, तथा कपाटेऽपि पूर्वदत्ते साध्वर्थमुद्घाटयमाने वेदितव्याः, तथाहि-यदा कपाटात् माक्कथमपि पृथिवीकायो जलभृतः करको वा बीजपूरादिकं वा मुक्तं भवति तदा तस्मिन्नुघाटयमाने कपाटे तद्विराधना भवति, जलभृते करकादौ तु भिद्यमाने [वा] पानीयं प्रसपेत् प्रत्यासन्नचुल्यादावपि प्रविशेत, तथा च सत्यग्निविराधना, यत्र चाग्निस्तत्र वायुरिति वायुविराधना च, मूइकादिविवरप्रविष्टकीटिकागृहगोधिकादिसत्त्वविनाशे त्रसकायविराधना चेति, दानक्रयविक्रयाधिकरण-| प्रवृत्तिभावना च पूर्ववत्कर्त्तव्या । 'सम्पति सविसेसा' इत्यवयवं व्याचिख्यासुराह घरकोइलसंचारा आवत्तण पीढगाइ हेटुवरि । नितेवि एयअंतो डिभाईपेल्लणे दोसा ॥ ३५५॥ व्याख्या-कपाटस्य ' सञ्चारात्' सञ्चलनागृहगोधिका, उपलक्षणमेतत् कीटिकोन्दुरादयश्च विराध्यन्ते, तथा प्रासादस्याधो भूमि Jain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy