SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ Jain Education I ०♠♠♠♠. भन्ने छकाया दाणे कविक्कए य अहिगरणं । ते चैव कवाडंमिवि सविसेसा जंतमाईसु ॥ ३४८ ॥ व्याख्या—उद्भिन्ने–पिहितोद्भिन्ने षट् काया: – उद्भेदकाले पट् कायाः पृथिवीकायादयो विराध्यन्ते, ततः प्रथमतः साधुनिमित्तं कुतुपादिमुखे उद्भिन्ने सति पुत्रादिभ्यस्तैलादिप्रदाने, तथा क्रयविक्रये क्रये विक्रये चाधिकरणं - पापवृत्तिरुपजायते, तथा एत एव पटूकायविराधनादयो दोषाः 'कपाटेऽपि कपाटोद्भिन्नेऽपि सविशेषास्तु 'यन्त्रादिषु ' यन्त्ररूपकपाटादिषु द्रष्टव्याः, तत्र यान्यतीव सम्पुटमागतानि कुञ्चिकया चोद्घाट्यन्ते यानि च दर्दरकोपरि पिट्टणिकाया एकदेशवर्त्तिनि मालमवेशरूपद्वारे तानि यन्त्ररूपकपाटा | आदिशब्दात्परिघादिग्रहः । सम्प्रत्येनामेव गाथां व्याचिख्यासुः प्रथमत: 'उन्भिन्ने छकाया ' इत्यवयवं व्याख्यानयन् गाथाद्वयमाहसच्चित्तपुढविलितं लेल सिलं वाऽवि दाउमोलितं । सच्चिसपुढविलेवो चिरंपि उद्गं अचिरलिते ॥ ३४९ ॥ एवं तु पुलिकाया उलिंपणेऽवि ते चेत्र । तिम्मेउं उबलिंपइ जउमुदं वात्रि तावेउं ॥ ३५० ॥ व्याख्या—इह कुतुपादिमुखं दर्द्दरकोपरि कदाचित् 'लेयुं ' लेष्टं शिळां वा पाणखण्ड प्रक्षिप्य जलार्द्रीकृत सचित्तपृथिवीकायलिप्तं भवति, तत्र सचित्तपृथिवीलेपः सचित्तः सन् चिरकालमप्यवतिष्ठते, उदकं तु ' अचिरलिप्ते ' अचिरकाललिप्ते सम्भवति, किमुक्तं भवति ? - यदि चिरकालस चित्तपृथिवी काय लिप्तमुद्भिद्यते तर्हि सचित्त पृथिवी कायविनाशोऽचिरलिप्ते तूद्भियमानेऽकायस्यापि विनाशः, अचिरलिप्तमप्यत्रान्तर्मुहूर्त्तकालस्य मध्यवर्त्तिं द्रष्टव्यम्, अन्तर्मुहूर्तानन्तरं पृथिवीकाय शस्त्रसम्पर्कन उदकपचितीभवति, ततो | न तद्विराधनादोषः, उपलक्षणमेतत् तेन त्रसादेरपि तदाश्रितस्य विनाशसम्भव द्रष्टव्यः । एवम् अनेन प्रकारेण पूर्वलिने साध्वर्थमुद्भिद्य For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy