________________
बच स्पृष्टामावा घनुशालाय भेदान प्रदशा मनिझम से
पिण्डनियु- क्तेमेलयागि- रीयावृत्तिः
॥१०५॥
साधुसङ्कटको वर्त्तते द्वितीये तु देयं तिष्ठति, तत्र च स्पृष्टास्पृष्टभयादिना गन्तुं न शक्यते, एवमुत्तरयोरपि पदयोर्भावनीय, ततः परिवे- उन्मेषणाषणपङ्गयां, यद्वा 'दूरप्रवेशे' प्रलम्बगमनमार्गे छिण्डिकादौ, यदिवा घड्वशालागृहे हस्तशतादानीतस्य ग्रहणमाचीर्ण, कल्पत इत्यर्थः, यो आची. परतस्त्वानीतस्य ग्रहणं 'प्रतिकुष्टं ' निराकृतं तीर्थकरादिभिः ॥ सम्पत्यस्यैवाचीणस्य भेदान प्रदर्शयति
|मभ्याहउक्कोस मज्झिम जहन्नगं तु तिविहं तु होइ आइन्नं । करपरियत्त जहन्न सयमुक्कोसं मज्झिमं सेसं ॥ ३४६ ॥
व्याख्या-त्रिविधमाचीर्णमभ्याहृतं, तद्यथा-उत्कृष्टं मध्यमं जघन्यं च, तत्र यदा ऊोपविष्टा वा कथमपि स्वयोगेन मुष्टिहीतेन मण्डकादिना, यदिवा स्वापत्यादिपरिवेषणार्थमोदनभृतया करोटिकयोत्पाटितया व्यवतिष्ठते, अत्रान्तरे च कथमपि साधुरागच्छति । भिक्षार्थ, तस्मै च यदि करस्थं ददाति तदा करपरिवर्तनमानं जयन्यमभ्याहृतमाचीर्ण, हस्तशतादभ्याहृतमुत्कृष्ट, शेषं तु हस्तशतमध्यवर्ति मध्यमं । तदेवमुक्तमभ्याहृतद्वारम् , अथोद्भिनद्वारमाह| पिहिउब्भिन्नकवाडे फासुय अप्फासुए य बोद्धव्वे । अफासु पुढविमाई फासुय छगणाइदद्दरए ॥ ३४७ ॥
___व्याख्या-उद्भिन्नं द्विधा, तद्यथा-पिहितोद्भिनं कपाटोद्भिन्नं च, तत्र यत् कुतुपादेः स्थगितं मुखं साधूनां तैलघृतादिदानार्थमुद्भिद्य तैलादि साधुभ्यो दीयते तदीयमानं तैलादि पिहितोद्भिनं, पिहितमुद्भिन्नं यत्र तत् पिहितोद्भिनमिति व्युत्पत्तेः, तथा यत् पिहितं कपाटमुद्भिद्य-उद्घाट्य साधुभ्यो दीयते तत् कपाटोद्भिनं, व्युत्पत्तिः प्रागिव, तत्र पिहितोद्भिन्ने यत्पिधानं तविया, तद्यथा-प्रासुकमप्रासुकं च, सचेतनमचेतनं चेत्यर्थः, तत्र 'अप्रामुकं' सचित्तपृथिव्यादिमयं, 'प्रामुक' छगणादिदर्दरके, तत्र छगणं-गोमयः, आदिशब्दाद्भस्मादिपरिग्रहः, दर्दरकः-मुखबन्धनं वस्त्रखण्डम् । अत्र पिहितोद्भिने कपाटोद्भिने च दोपानभिषित्सुराह
Jain Education International
For Personal & Private Use Only
www.nelibrary.org