SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ स्थानतः प्रतिषिद्धा यथा त्वयाऽप्यमुकस्मिन् दिने मदीयं प्रहेणकं न जग्रहे ततोऽहमपि त्वदीयं न ग्रहीष्यामीत्येवं निषिद्धा, ततः साऽपि मातृस्थानतः किञ्चित्परुषं प्रत्युक्तवती, द्वितीययाऽपि तथैव भाषितं, तत एवं परस्परं ' संखडे' कलहे सति सा प्रहेणकनेत्री ' रुष्टा ' रो पवती वन्दनार्थं वसतौ प्रविशति, ततोऽनन्तरवृत्तं वृत्तान्तं कथयित्वा तदानीं ददाति । उक्तं स्वग्रामाभ्याहृतमपि निशीथं, सम्प्रत्यनाचीर्ण निगमयन्नाचीर्णस्य भेदानाह— एयं तु अणाइन्नं दुविर्हपि य आहडं समक्खायं | आइन्नंपि य दुविहं देसे तह देसदेसे अ ॥ ३४३ ॥ व्याख्या–‘एतत्’ पूर्वोक्तमभ्याहृतं निशीथनोनिशीथभेदाद् यद्वा स्वग्रामपरग्रामभेदाद्विविधमप्याख्यातमनाचीर्णम् - अकल्पनीयं सम्प्रत्याचीर्ण वक्ष्ये, तदपि द्विविधं तद्यथा-देशे देशदेशे च । सम्प्रति देशस्य देशदेशस्य च स्वरूपमाह - हत्थसयं खलु देसो आरेणं होइ देसदेसो य । आइन्नंमि ( उ ) तिगिहा ते चिय उवओगपुव्बागा ॥ ३४४ ॥ व्याख्या–‘हस्तशतं ’ हस्तशतप्रमितं क्षेत्रं देशः, हस्तशतादाराद्धस्तशतमध्ये इत्यर्थः, देशदेशः, तत्र हस्तशतप्रमाणे आचीर्णे यदि | गृहाणि त्रीणि भवन्ति नाधिकानि ततः कल्पते, तान्यपि चेद्गृहाण्युपयोगपूर्वकाणि भवन्ति, उपयोगस्तत्र दातुं शक्यत इत्यर्थः, ततः कल्पते नान्यथेति । सम्प्रति गृहत्रयव्यतिरेकेण हस्तशतादिसम्भवं तद्विषयं कल्पयाकल्प्यविधि चाह Jain Education International परिवेसणपंतीए दूरपवेसो य घंघसालगिहे । हत्थसया आइन्नं गहणं परओ उ पडिकुÉ ॥ ३४५ ॥ व्याख्या–परिवेष्यते—भोजनं दीयते येभ्यस्ते परिवेषणाः - भुञ्जानाः पुरुषास्तेषां पङ्किः - श्रेणिस्तस्यां तत्र ह्येकस्मिन् पर्यन्ते For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy