SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ तेषामावसथे वीवाहः समजनि, वृत्ते च तस्मिन् प्रचुरं मोदकाद्युद्धरितं, ततस्तैरचिन्ति-यथैतत्साधुभ्यो दीयतां येन महत्पुण्यमस्माकमुपजायते, अथ च केचित्साधवो दूरेऽवतिष्ठन्ते, केचित्पुनः प्रत्यासन्नाः, परमन्तराले नदी विद्यते, ततस्तेऽप्यकायविराधनाभयतो नागमिष्यन्ति, आगता अपि च प्रचुर मोदकादिकमवलोक्य कथ्यमानमपि शुद्धमाधाकर्मशड्या न ग्रहीष्यन्ति ततो यत्र ग्रामे साधवो निवसन्ति तत्रैव प्रच्छन्नं गृहीत्वा व्रजाम इति, तथैव च कृतं, ततो भूयोऽपि चिन्तयन्ति-यदि साधूनाहूय दास्यामस्ततोऽशुद्धमाशङ्काय ते न ग्रहीष्यन्ति तस्मात द्विजादिभ्योऽपि किमपि दद्मः, तच्च तथा दीयमानमपि यदि साधवो न प्रेलिष्यन्ते ततस्तदवस्थैव तेषामशुद्धाशङ्का भविष्यति ततो यत्रोच्चारादिकार्यार्थ निर्गताः सन्तः साधवः प्रेक्षन्ते तत्र दद्म इति, एवं च चिन्तयित्वा विवक्षिते कस्मि|श्चित्प्रदेशे कस्यचिद्देवकुलस्य बहिर्भागे द्विजादिभ्यः स्तोकं स्तोकं दातुमारब्ध, तत उच्चारादिकार्यार्थ विनिर्गताः केचन साधवो दृष्टाः, ततस्ते निमन्त्रिता यथा भोः ! साधवः ! अस्माकमुद्धरितं मोदकादि प्रचुरमवतिष्ठते ततो यदि युष्माकं किमप्युपकरोति तहि तत्पतिगृह्यतामिति, साधवोऽपि शुद्धमित्यवगम्य प्रत्यगृह्णन्, तैश्च साधुभिः शेषाणामपि साधूनामुपादेशि-यथाऽमुकस्मिन् प्रदेशे प्रचुरमेषणीयमशनादि लभ्यते, ततस्तेऽपि तद्रहणाय समाजग्मुः, तत्र चैके श्रावकाः प्रचुरं मोदकादिकं प्रयच्छन्ति, अन्ये च मातृस्थानतो निवारयन्ति, यथैतावदीयतां माऽधिकं, शेषमस्माकं भोजनाय भविष्यति, अन्ये पुनस्तानेव निवारयतः प्रतिषेधयन्ति-यथा न कोऽप्यस्माकं भोक्ष्यते, सर्वेऽपि प्रायो भुक्ताः, ततः स्तोकमात्रेण किञ्चिदुद्धरितेन प्रयोजनं, तस्माद्यथेच्छं साधुभ्यो दीयतामिति । साधवश्व ये नमस्कारसहितप्रत्याख्यानास्ते भुक्ताः, ये च पौरुषीप्रत्याख्यानास्ते भुञ्जाना वर्तन्ते, ये चाजीर्णवन्तः पूर्वार्दादि प्रतीक्षमाणा वर्तन्ते ते नाद्यापि भुञ्जते, श्रावकाच चिन्तयामासुः-यथेदानी साधवो भुक्ता भविष्यन्ति, ततो वन्दित्वा निजस्थानं व्रजाम इति, एवं चिन्तयित्वा Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy