________________
सग्गामेऽवि य दुविहं घरंतरं नोघरतरं चेव । तिघरंतरा परेणं घरंतरं तं तु नायव्वं ॥ ३३३ ॥ नोघरंतरऽणेगविहं वाडगसाहीनिवेसणगिहेस । काये खंधे मिम्मय कंसेण व तं तु आणेजा ॥ ३३४॥
व्याख्या-'स्वग्रामेऽपि' स्वग्रामविषयमप्यभ्याहृतं द्विविधं, तद्यथा-गृहान्तरं नोगृहान्तरं च, तत्र त्रिगृहान्तरात परेण-त्रीणि गृहाण्यन्तरं कृत्वा परतो यदानीतं तद्गृहान्तरं, एवं च सति किमुक्तं भवति?-यगृहत्रयमध्यादानीयते उपयोगश्च त(य)त्र सम्भवति तदाचीर्णमवसेयं, नोगृहान्तरमनेकविधं, तच्च वाटकादिविषयं, तत्र 'वाटकः' परिच्छन्नः प्रतिनियतः सन्निवेशः 'साही' वर्तनी सैवैकाऽपान्तराले विद्यते न तु गृहान्तरमित्यर्थः 'निवेशनम् । एकनिष्क्रमणप्रवेशानि द्वयादिगृहाणि 'गृहं केवलं मन्दिरम् , एतच्च सकलमपि वाटकादिविषयमनाचीर्णमनुपयोगसम्भवे वेदितव्यं, तदपि च गृहान्तराख्यं नोगृहान्तराख्यं च नोनिशीथं स्वग्रामाभ्याहृतं प्रतिलाभयितुमीप्सितस्य साधोरुपाश्रयमानयेत् कापोत्या यदिवा स्कन्धेन, उपलक्षणमेतत्, तेन करादिना च, यदिवा मृन्मयेन भाजनेन यद्वा कांस्येन ॥ सम्पत्यस्यैव स्वग्रामविषयनोनिशीथाभ्याहृतस्य सम्भवमाहसुन्नं व असइ कालो पगयं व पहेणगं व पासुत्ता । इय एइ काइ घेत्तुं दीवेइ य कारणं तं तु ॥ ३३५ ॥ |
व्याख्या-इह साधुर्भिक्षामटन् कापि गृहे प्रविष्टः, परं तत्तदानीं 'शून्यं ' बहिनिर्गतमानुषमासीत, यद्वाऽद्यापि तत्र राध्यते इति 'असन्' अविद्यमानो भिक्षाकालः, यदिवा तत्र प्रकृतं-गौरवाईस्वजनभोजनादिकं वर्त्तते, न ततो तदानीं साधवे भिक्षा दातुं प्रपारिता, यदि-1 वा विहृत्य साधोगतस्य पश्चात् 'प्रहेणकं, लाहनकमागतं, तच्चोत्कृष्टत्वात् किल साघवे दातव्यम् , अथवा तदा श्राविका 'प्रसुप्ता ' शयि-|
dain Education International
For Personal & Private Use Only
www.jainelibrary.org