________________
पिण्डनियु- हृतं द्विधा, तद्यथा-जवाभ्यां-पद्याम् , उपलक्षणमेतत् , तेन गन्त्र्यादिना च॥ तत्रामूनेव जलस्थलाभ्याहृतभेदान् सप्रपञ्चं विभावयन्| ११अभ्याक्तेर्मलयाग- दोषान् प्रदर्शयति
हृतदोषः रीयावृत्तिः
जंघा बाह तरीइ व जले थले खंध आरखुरनिबद्धा । संजमआयविराहण तहियं पुण संजमे काया ॥ ३३१ ॥ ॥१०२॥ अत्थाहगाहपंकामगरोहारा जले अवाया उ। कंटाहितेणसावय थलंमि एए भवे दोसा ॥ ३३२ ॥
व्याख्या-तत्र जलमार्गे स्तोकजलसम्भावनायां जयाभ्याम् अस्ताघसम्भावनायां बाहुभ्यां यदिवा तरिकया, उपलक्षणमेतत्, उडुपेन चाभ्याहृतं सम्भवति, स्थलमार्गे तु स्कन्धेन यद्वा 'आरखुरनिबद्ध त्ति अत्र तृतीयार्थे प्रथमा, ततोऽयमर्थः-आरकनिबद्धा गन्त्री | तया खुरनिबद्धा रासभबलीवादयस्तैः, अत्र च दोषाः संयमविराधनाऽऽत्मविराधना च, 'तत्र' संयमाऽऽत्मविराधनामध्ये संयम-|| विषया विराधना जलमार्गे स्थलमार्गे च 'काया' अप्कायादयो विराध्यमाना द्रष्टव्याः । जलमार्गे आत्मविराधनामाह-'अत्थाह का इत्यादि, अत्र प्राकृतत्वात् कचिद्विभक्तिलोपः कचिद्विभक्तिपरिणामश्च, ततोऽयमर्थः-अस्ताघे पदादिभिरलभ्यमानेऽधोभूभागेऽधो-18 निमज्जनलक्षणोऽपायो भवति, तथा 'ग्राहेभ्यः' जलचरविशेषेभ्यः यदा ‘पडूतः ' कलरूपात् अथवा मकरेभ्यः, यदिवा 'ओहारे चि कच्छपेभ्यः, उपलक्षणमेतत्, अन्येभ्यश्च पादबन्धकतन्त्वादिभ्यः 'अपाया' विनाशादयो दोपाः सम्भवन्ति । स्थलमार्गे आत्मवि-18 राधनामाह-कंटे'त्यादि कण्टकेभ्यो यदिवाऽहिभ्यो यद्वा स्तेनेभ्योऽथवा श्वापदेभ्यः, उपलक्षणमेतत् , ज्वराद्युत्पादकपरिश्रमादिभ्यश्च : 'स्थले ' स्थलमार्गे एत एवापायरूपा दोषाः प्रतिपत्तव्याः ।। उक्तमनाचीर्ण परग्रामाभ्याहृतं नोनिशीथं, सम्पति तदेव स्वग्रामाभ्याहृतं ॥१०२॥ नोनिशीथं गाथाद्वयेनाह
0000००००००००००००००००००००००००००००
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org