SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ यस्य सत्कं तद्वस्त्रादि तेन मुरुपादमूले तस्य वस्त्रादेः स्थापनं कर्त्तव्यं, गुरुपादमूले मोक्तव्यमित्यर्थः, ततो वृत्तान्तः कथनीयः, वृत्तान्ते च कथिते सति स गुरुर्ददाति 'अन्यथा' गुरुपादमूलस्थापनाद्यभावे 'कलहः' परस्परं राटिः सम्भवतीति । उक्तं परिवर्तितद्वारम् , अथाभ्याहृतद्वारमाह| आइन्नमणाइन्नं निसीहऽभिहडं च नोनिसीहं च । निसिहाभिहडं ठप्पं वोच्छामी नोनिसीहं तु ॥ ३२९॥ व्याख्या-अभ्याहृतं द्विधा, तद्यथा-आचीर्णमनाचीर्ण च, तत्रानाचीण द्विधा, तद्यथा-निशीथाभ्याहृतं नोनिशीथाभ्याहृतं च, तत्र निशीथम्-अर्द्धरात्रं तत्रानीतं किल प्रच्छन्नं भवति, एवं साधूनामपि यदविदितमभ्याहृतं तनिशीथाभ्याहृतमिव निशीथाभ्याहृतं, तद्विपरीतं नोनिशीथाभ्याहृतं-यत्साधूनामभ्याहृतमिति विदितं भवति, तत्र निशीथाभ्याहृतं स्थाप्यम्, अग्रे वक्ष्यते इति भावः, सम्मति पुनवक्ष्यामि नोनिशीथाभ्याहृतं ॥ प्रतिज्ञातमेव निर्वाहयति सग्गाम परग्गामे सदेस परदेसमेव बोद्धव्वं । दुविहं तु परग्गामे जलथल नावोडु जंघाए ॥ ३३० ॥ व्याख्या-नोनिशीथाभ्याहृतं द्विविध, तद्यथा-'स्वग्रामे स्वग्रामविषयं 'परग्रामे परग्रामविषय, तत्र यस्मिन् ग्रामे साधुर्निवसति स | किल स्वग्रामः, शेषस्तु परग्रामः, तत्र 'परग्रामे' परग्रामविषयमभ्याहृतं द्विविध, तद्यथा-स्वदेशं परदेशं च, स्वदेशपरग्रामाभ्याहृतं परदेशपरग्रामाभ्याहृतं चेत्यर्थः । तत्र स्वदेशो यत्र देशे मण्डले साधुर्वर्त्तते, शेषस्तु परदेशः । एतद्विविधमपि प्रत्येकं द्विधा, तद्यथा-'जलथल 'त्ति 'सूचनात्सूत्र 'मितिकृत्वा जलपथेनाभ्याहृतं स्थलपथेनाभ्याहृतं च, तत्र जलपथेनाप्यभ्याहृतं द्विधा-नावा उडुपेन च, उपलक्षणमेतत् , || तेन स्तोकजलसम्भावनायां जवाभ्यामपि, तत्र नौः-तरिका उडुपः-तरणकाष्ठं तुम्बकादि चोडुपग्रहणेन गृहीतं द्रष्टव्यं, स्थलपथेनाप्यभ्या-Mel dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy