SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ पिण्डनियु तेर्मलयगि रीयावृत्तिः १०परिव| तितदोषः भ्राताभगिन्युदाहरणं ॥१०१॥ एव गाथाया विवरणभूतमुत्तरं गाथाद्वयं, तदपि च सुगम, नवरं ' मच्छर 'त्ति विभक्तिलोपात् मत्सरेण 'नाइक्ख 'त्ति परिवर्त्तनेऽकथिते 'पंतावे' अताडयत्, 'उवसमियाण'त्ति उपशमितानां, ननु परिवर्तनमपीदं प्रव्रज्यायाः कारणं बभूव ततो विशेषतः साधुभिरिदमाचरणी-1 यमत आह-'कइ व 'त्ति कति वा कियन्तो ‘वा क्षेमकरसाधुसदृशा भविष्यन्ति ये इत्थं परिवर्तनसमुत्थं कलहमपनीय प्रव्रज्यां ग्राह- यिष्यन्ति, तस्मान्नैवेदमाचरणीयम् । उक्तं लौकिकं परिवर्तनम् , अथ लोकोत्तरं तद्वक्तव्यं, तत्र यत् साधुः साधुना सह वस्त्रादिपरि-| वर्त्तनं करोति तल्लोकोत्तरं परिवर्तनं, तत्र दोषानुपदर्शयतिऊणहिय दुब्बलं वा खर गुरु छिन्न मइलं असीयसहं । दुव्वन्नं वा नाउं विपरिणमे अन्नभणिओ वा ॥ ३२७ ॥ | व्याख्या-वस्त्रपरिवर्तने कृते सतीदं न्यूनं यत्तु मदीयं वस्त्रं बभूव तन्मानयुक्तं-प्रमाणोपपन्नं, यद्वा इदमधिकं मदीयं पुनानयुक्तमेवं सर्वत्र भावना, नवरं 'दुर्बलं' जीर्णप्रायं 'खरं' कर्कशस्पर्श 'गुरुः। स्थूलसूत्रनिष्पन्नतया भारयुक्तं 'छिन्नं निपुष्पकं 'मलिनं ' मलाविलम् 'अशीतसह' शीतरक्षणाक्षम' 'दुर्वर्ण' विरूपच्छायम्, इत्थंभूतं स्वयमेव ज्ञात्वा 'विपरिणमेत् ' घृष्टोऽहमिति || विचिन्तयेत् , यद्वा-अन्येन साधुना खग्गूडेन भणित उत्पासितो विपरिणमेत् । अत्रैवापवादमाह| एगस्स माणजुत्तं न उ बिइए एवमाइ कज्जेसु । गुरुपामूले ठवणं सो दलयइ अन्नहा कलहो ॥ ३२८ ॥ व्याख्या-एकस्य साधोर्यस्य सत्तं तन्न भवति तस्य 'मानयुक्तं' प्रमाणोपपन्नं वस्त्रादि, न द्वितीये-द्वितीयस्य साधोर्यस्य सत्कं तस्य मानयुक्तं, किन्तु ?-न्यूनमधिकं वा, तत एवमादिषु कार्येषु समुत्पन्नेषु परिवर्तनस्य सम्भवो भवति, तत्र परिवर्तनस्य सम्भवे ||१०१॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy