________________
न मम गृहे साधरपि भ्राता समुत्तीर्ण इति परिभवं मंस्यते इति, ततोऽनुकम्पया तस्या एव गृहे प्रविवेश, भिक्षावेलायां च तया लक्ष्म्या : चिन्तितं यथैकं तावदयं भ्राता द्वितीयं साधुः तृतीयं प्राघूर्णकः, मम च गृहे कोद्रवकूरः, ततः कथमसावस्मै दीयते?, शाल्योदनश्च मम गहे न विद्यते, ततो भ्रातृजायाया बन्धुमत्याः सकाशात् कोद्रवौदनपरावर्तनेन शाल्योदनमानीय ददामीति तथैव कृतम्, अत्रान्तरे च देवदत्तो भोजनार्थ स्वगृहमागतः, बन्धुमत्या च पप्रच्छे यथाऽय कोद्रवौदनो जेमितव्यः, तेन चाविज्ञातपरिवर्तनवृत्तान्तेन चिन्तितंयथाऽनया कृपणतया कोद्रवौदनो राद्धो न शाल्योदनः, ततस्तां ताडयितुमारेभे, सा च ताड्यमाना पाह-कि मां ताडयसि ?, तवैव भगिनी कोद्रवौदनं मुक्त्वा शाल्योदनं नीतवती, धनदत्तस्यापि च भोजनार्थमुपविष्टस्य यः शाल्योदनः क्षेमरस्य दीयमान उद्धरितः स गौरवेण लक्ष्म्या परिवेषितः, ततस्तेन सा पृष्टा-कुतोऽयं शाल्योदनः ?, ततः कथितः सर्वोऽपि तया वृत्तान्तः, श्रुत्वा च तं वृत्तान्तं चुकोप धनदत्तो-यथा हा ! पापे ! किमिति त्वया मानमेकं शालेः पक्त्वा साधवे शाल्योदनो न दचो यत्परगृहादानयनेन मम मालिन्यमापादितं, ततस्तेनापि सा ताडिता, साधुना चायं वृत्तान्तो गृहद्वयवर्ती सर्वोऽपि जनपरम्परातः शुश्रुवे, ततो निशि सर्वाण्यपि तानि प्रतिबोधितानि, यथेत्थमस्माकं न कल्पते परमजानता मया गृहीतम् , अत एव च कलहादिदोषसम्भवाद्भगवता प्रतिषिद्धं, ततो जिनप्रणीतं धर्म सविस्तरं कथितवान् , जातः सर्वेषामपि संवेगो, दत्ता च दीक्षा तेषां सर्वेषामिति । सूत्रं सुगम, नवरम् 'अवरुप्परसज्झिलगा' इति लक्ष्मीदेवदत्तौ बन्धुमतीधनदत्तौ परस्परं 'सज्झिलगौ' भ्रातरौ, ते च 'द्वे अपि । लक्ष्मीबन्धुमत्यौ 'अन्नमन्नेणं 'ति अन्योऽन्यमपि सम्बद्धे देवदत्तस्य भगिनी लक्ष्मीनदत्तेन धनदत्तस्यापि भगिनी बन्धुमती देवदत्तेन परिणीता इत्यर्थः, 'पोग्गलिय'त्ति पौगलिकस्य शाल्योदनस्य 'संयतार्थ ' क्षेमङ्करसाधुनिमित्तं परिवर्त्तनं कृतं, ततः 'संखडं' कलहस्ततः ‘बोधिः' प्रव्रज्या, अस्या
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org