________________
व्याख्या- एते एव' दासत्वादयो दोषा वस्त्रपात्रविषयेषु लौकिकेषु प्रामित्येषु सविशेषतरा निगडादिनियन्त्रणपुरस्सरा द्रष्टव्याः, 'लोकोतरिकाः' लोकोत्तरमामित्यविषयाः पुनरिमेऽन्ये दोषाः, तानेवाहमइलिय फालिय खोसिय हियनढे वावि अन्न मग्गंते । अवि सुंदरेवि दिण्णे दुक्कररोई कलहमाई ॥ ३२१ ॥
व्याख्या-इह द्विधा लोकोत्तरं पामित्यं-कोऽपि कस्यापि सत्कमेवं वस्त्रादि गृह्णाति यथा कियदिनानि परिभुज्य पुनरपि ते समर्पयिष्यामि, कोऽपि पुनरेवम्-एतावदिनानामुपरि तवैतत्सदृशमपरं वस्त्रादि दास्यामि, तत्र प्रथमे प्रकारे 'मलिनिते' शरीरादिमलेन लेदिते यदिवा पाटितेऽथवा 'खोसिते ' जीर्णप्राये कृते यदि वा चौरादिना हृते यदा-कापि मार्गपतिते कलहादयो दोषाः। द्वितीये च प्रकारेऽन्यद्वस्त्रादिकं याचमानो याचमानस्य 'अपिः' सम्भावनायां 'सुन्दरेऽपि ' पूर्वभुक्ताद्वस्त्रादेविशिष्टतरेऽपि दत्ते कोऽपि दुष्कररुचिर्भवति, महता कष्टेन तस्य रुचिरापादयितुं शक्यते, ततस्तमधिकृत्य कलहादयो दोषाः सम्भवन्ति, तस्माल्लोकोत्तरमपि पामित्यं न कर्त्तव्यम् । अत्रैवापवादमाहउच्चत्ताए दाणं दुल्लभ खग्गड अलस पामिच्चे । तंपि य गुरुस्स पासे ठवेइ सो देइ मा कलहो ॥ ३२२ ॥
व्याख्या-इह दुर्लभे वस्त्रादौ सीदतः साधोर्यदि वस्त्रादिकमपरेण साधुना दातुमिष्यते तर्हि तस्य 'उच्चतया' मुधिकतया दानं कर्त्तव्यं, न प्रामित्यकरणेन, तथा यः 'खग्गूडः' कुटिलो वैयाकृत्यादौ न सम्यग् वर्त्तते योऽपि चालसः तौ दुर्लभवस्त्रादिदानमलोभनेनापि वैयाकृत्यं कार्येते, ततस्तद्विषयं प्रामित्यं सम्भवति, तत्रापि तदीयमानं वस्त्रादिकं दायको गुरोः पार्चे स्थापयेत् , न स्वयं दद्यात, ततः स गुरुर्ददाति, मा भूदन्यथा तयोः परस्परं कलह इतिकृत्वा ।। उक्तं प्रामित्यद्वारम्, अधुना परावर्त्तितद्वारमभिधित्सुराह
Jain Education
For Personal & Private Use Only
www.jainelibrary.org