________________
पिण्डनियु- ऽपि सम्मताभिधः साधुस्तस्मिन्नेव ग्रामे यथाविहारक्रममागमत, सा च भगिनी स्वगृहे न दृष्टा, तत आगता सती पपच्छे, तया च प्राचीनः मामित्यतेर्मलयगि- सर्वोऽपि व्यतिकरस्तस्मै न्यवेदि यावदासत्वं शिवदेवगृहे जातमिति, निवेद्य च स्वदुःखं रोदितुं प्रवृत्ता, ततः साधुरवोचत्-मा रोदी
दोषे भगिरीयावृत्तिः रचिरादहं त्वां मोचयिष्यामि, ततस्तस्या मोचनोपायं चिन्तयन् प्रथमतः शिवदेवस्यैव गृहे प्रविवेश, शिवा च तस्य भिक्षादानार्थ जलेन हस्तौ ।
न्युदाहरणं प्रक्षालयितुं लगा, तां च साधुर्निवारयामास, यथैवमस्माकं न कल्पते भिक्षेति, ततः समीपदेशवत्ती श्रेष्ठी प्रोवाच-कोऽत्र दोषः ?, ततः साधुः | कायविराधनादीन् दोषान् यथागर्म सविस्तरमचीकथत् ततः स आहतो भणति यथा भगवन् ! कुत्र युष्माकं वसतिर्येन तत्रागता वयं धर्म शृणुमः ततः साधुरवादीत-नास्ति मेऽद्यापि प्रतिश्रयः, ततस्तेन निजगृहैकदेशे वसतिरदायि, प्रतिदिनं च धर्मशृणोति, सम्यक्त्वमणुव्रतानिच| प्रतिपन्नानि, साधुश्च कदाचनापि वासुदेवादिपूर्वपुरुषाचीर्णाननेकानभिग्रहान् व्यावर्णयामास, यथा वासुदेवेनायमभिग्रहो जगृहे-यदि मदीयः पुत्रोऽपि प्रव्रज्यां जिघृक्षति ततोऽहं न निवारयामीत्यादि, एवं च श्रुत्वा शिवदेवोऽप्यभिग्रहं गृहीतवान्–यदि भगवन् ! मदीयोऽपि कोऽपि प्रव्रज्यां प्रतिपद्यते ततोऽहं न निवारयामीति, अत्रान्तरे च शिवदेवस्य तनयो ज्येष्ठः सा च साधुभगिनी सम्मतिः प्रवज्यां ग्रही
तुमुपतस्थे, श्रेष्ठिना च तो द्वावपि विसर्जितो, ततः प्रव्रज्यां प्रतिपन्नाविति । सूत्रं सुगम, केवलं 'श्रुताधिगमज्ञातविधिः' श्रुताधिगमात् | का ज्ञातो विधिः-क्रियाविधिर्येन स तथा, अत्राह-नन्वेतत्पामित्यं साधुना विशेषतो ग्रहीतव्यं, परम्परया प्रव्रज्याकारणत्वात् , अत आह'कइवया उ' एवंविधा गीतार्था विशिष्टश्रुतविदो देशनाविधिनिपुणाः कतिपया एव भवन्ति, न भूयांसः, कतिपयानामेव च प्रव्रज्यापरि
॥९९॥ णामः, ततः पामित्यं दोषायैव । तदेवं तैलविषये प्रामित्ये दोष उक्तः, सम्प्रत्यतिदेशेन वस्त्रादिविषये दोषानभिधित्सुराह
एए चेव य दोसा सविसेसयरा उ वत्थपाएसं । लोइयपामिच्चेसं लोगत्तरिया इमे अन्ने ॥ ३२० ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org