________________
सुताः, सम्मतिप्रभृतयश्च प्रभूता दारिकाः, तच्च सकलमपि कुटुम्ब परमश्रावकं, तथा तस्मिन्नेव ग्रामे शिवदेवो नाम श्रेष्ठी, तस्य भाय शिवा, अन्यदा च समुद्रघोषाभिधाः सूरयः समागच्छन्, तेषां समीपे जिनप्रणीतं धमाकण्ये जातसंवेगः सम्मतो दीक्षा ग्रहीतवान. कालक्रमेण च गुरुचरणप्रसादतोऽताव गीतार्थः समजनि । स चान्यदा चिन्तयामास-यदि मदीयः कोऽपि प्रवज्यां गृह्णाति ततः शोभनं भवति, इदमेव हि तात्त्विकमुपकारकरणं यत्संसाराणवादुत्तारणमिति, तत एवं चिन्तयित्वा गुरूनापृच्छय निजबन्धुग्रामे समागमत, तत्र च बहिः प्रदेशे कमपि परिणतवयसं पृष्टवान् पुरुषं-यथाऽत्र देवराजाभिधस्य कुटुम्बिनः सत्कः कोऽपि विद्यते? इति, स पाह-मृतं सर्वमपि तस्य कुटुम्ब केवलमेका सम्मत्यभिधा विधवा पुत्रिका जीवतीति, ततः स तस्या गृहे जगाम, सा च भ्रातरमायान्तं दृष्ट्वा मनसि बहुमानमुद्वहन्ती वन्दित्वा कश्चित्कालं पर्युपास्य च तन्निमित्तमाहारं पक्तुमुपतस्थे, साधुश्च तां निवारितवान्-यथा न कल्पतेऽस्माकमस्मनिमित्तं किमपि कृतमिति, ततो भिक्षावेलायां सा दुर्गतत्वेनान्यत्र कचिदपि तैलमात्रमप्यलभमाना कथमपि शिवदेवाभिधस्य वणिजो विप-| णेस्तैलपलिकाद्वयं दिने दिने द्विगुणद्धिरूपेण कलान्तरेण समानीय भ्रात्रे दत्तवती, भात्रा च तं वृत्तान्तमजानता शुद्धमिति ज्ञात्वा प्रतिजगृहे, सा च तदिनं भ्रातुः सकाशे धर्म श्रुतवती, तेन न पानीयानयनादिना तत्तैलपलिकाद्वयं प्रवेशयितुं प्रपारितवती, द्वितीये च दिने भ्राता (यथा) विहारक्रमं गतः, ततस्तस्मिन्नपि दिने तद्वियोगशोकाकीर्णमानसतया न तत्तैलपलिकाद्वयं द्विगुणीभूतं प्रवेशयितुं शक्तवती, तृतीये च दिने कर्षद्वयमृणे जातं तच्चातिप्रभूतत्वान्न प्रवेशयितुं शक्तम् , अपिच भोजनमपि पानीयानयनादिना कर्त्तव्यं, ततो भोजनायैव यत्नविधौ । सकलमपि दिनं जगामेति न ऋणं प्रवेशयितुं शक्नोति, ततो दिने दिने द्विगुणदया प्रवर्द्धमानमृणमपरिमितघटप्रमाणं जातं, ततः श्रेष्ठिना सा बभणे-यथा मम तैलं देहि यद्वा मे दासी भव, ततः सा तैलं दातुमशक्नुवती दासत्वं प्रतिपेदे, कियत्सु च वर्षेष्वतिक्रान्तेषु भूयो
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org