________________
किं वा कहिज्ज छारा दगसोयरिआ व अहवऽगारत्था । किं छगलगगलवलया मुंडकुटुंबीव किं कहए? ॥ ३१४ ॥ ___ व्याख्या-यो जगति निपुणो धर्मकथाकथकः श्रूयते स किं त्वम् ? इति पृष्ट एवमुत्तरमाह-कि 'क्षाराः' क्षारावगुण्डितवपुषः कथयेयुः?, नैव ते कथयन्ति, किं वा दकशौकरिका? दक-जलं तस्य निरन्तरं विनाशकतया शौकरिका इव पापदिकारिण इव वा दकशौकरिका:-साख्याः , किं वा 'अगारस्था: गृहस्थाः शास्त्राध्ययनाध्यापनविकलाः ?, यद्वा किंछगलकस्य-पशोगलं-ग्रीवां वलयन्ति-मोटयन्ति ये ते छगलकगलवलकाः, यदिवा किं मुण्डाः सन्तो ये कुटुम्बिनः शौद्धोदनीयास्ते कथयेयुः?, नैव ते कथयन्ति, किन्तु यतय एव, तत एवमुक्ते श्रावकाश्चिन्तयन्ति-नूनं स एवायं धर्मकथाकथक इत्यादि तदेव शेषं द्रष्टव्यं । तदेवं धर्मकथाद्वारं व्याख्याय शेषाण्यतिदेशेन व्याख्यातिएमेव वाइ खमए निमित्तमायावगम्मि य विभासा । सुयठाणं गणिमाई अहवा वाणायरियमाई ॥ ३१५ ॥
व्याख्या-यथा धर्मकथाकथके विभाषा-भावना कृता 'एवमेव ' अनेनैव प्रकारेण 'वादिनि ' क्षपके निमित्तशे आतापके च विभाषा कर्त्तव्या, यथा वादेनाक्षिप्तं याचते, यद्वा-ये वादिनः श्रूयन्ते ते किं यूयम् ? इति प्रश्ने प्रायो यतय एव वादिनो भवन्तीति ब्रूते, यद्वा-मौनेनावतिष्ठते, यद्वा-किं भस्मावगुण्ठितवपुषः, किं वा दकशौकरिका यदिवा धिग्जातीया यद्वा शौद्धोदनीया वादमेवं दयुः, नैव ते ददति किन्तु यतयः, एवमुक्ते ते एवं परिजानते-यथा त एवामी, ततो विशिष्टमाहारादिकं तस्मै वितरन्ति, तच्च तथा प्रभूतं लभ्यमानमात्मभावक्रीतमवसेयं । तथा श्रुतस्थानं-गण्यादि, तत्र 'गणित्वम् ' आचार्यत्वम् आदिशब्दात उपाध्यायत्वादिपरिग्रहः, यद्वा वाचना
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org