________________
।
क्रीतदोषः
पिण्डनियु- व्याख्या-धर्मकथादिषु भावक्रीतं भवति, इयमत्र भावना-यत् परचित्तावर्जनार्थ धर्मकथां वादं 'क्षपणं' षष्टाष्टमादिरूपं तपो क्तेर्मलयागजिन
|| निमित्तमातापनां वा करोति, यद्वा-श्रुतस्थानमाचार्योऽहमित्यादिकं कथयति, यदिवा जाति कुलं गणं शिल्पं कर्म वा परेभ्यः प्रकटयति, रीयात्तिः इत्थं च परमावर्ण्य यत्ततो भक्तादि गृह्णाति तदात्मभावक्रीत, यदा तु दुःखक्षयार्थ कर्मक्षयार्थ च धर्मकथादिकं यथायोगं करोति तदा
स प्रवचनप्रभावकतया महानिर्जराभाग भवति, उक्तं च-"पवियणी धम्मकही वाई नेमित्तिओ तबस्सी य । विजा सिद्धो य कई ॥९७॥ ॥ अहेव पभावगा भणिया ॥१॥" सम्पति धर्मकथारूपं प्रथमं द्वारं प्रपञ्चयितुमाह
धम्मकहाअक्खित्ते धम्मकहाउट्ठियाण वा गिण्हे । कडुति साहवो चिय तुमं व कहि पुच्छिए तुसिणी ॥ ३१३ ॥
व्याख्या-आहारावर्थ धर्मकथां कथयता यदा ते श्रोतारो धर्मकथया सम्यगाक्षिप्ता भवन्ति तदा तेषां पार्थे यद्याचते, ते हि तदा | महर्षमागताः सन्तोऽभ्यर्थिता न तिष्ठन्ति, यद्वा-धर्मकथात उत्थिताना सतां तेषां पार्थ यद्गह्नाति तदात्मभावक्रीतम् , आत्मना-स्वयमेव भावेन-धर्मकथनरूपेण क्रीतमात्मभावकृतमिति, यद्वा-धर्मकथाकथकः कोऽपि प्रसिद्धो वर्चते, तदनुरूपाकारश्च विवक्षितः साधुः,ततस्तं श्रावकाः पृच्छन्ति-यः 'कथी' धर्मकथाकथक श्रूयते, स किं त्वम् ? इति, ततः स भक्तादिलोभादेवं वक्ति-यथा साधव एव प्रायो धर्मकथा कथयन्ति, नान्यः, यदिवा तूष्णीं-मौनेनावतिष्ठते, ततस्ते श्रावका जानन्ते-यथा स एवायं, केवलं गम्भीरत्वादात्मानं न साक्षाद्वचसा प्रकाशयतीति, ततः प्रभूततरं तस्मै प्रयच्छन्ति, तच्च तेभ्यः प्रभूततरं लभ्यमानमात्मभावकृतम्, आत्मना-स्वयमेव भावेन-स्वयमसोऽपि कथकः सोऽहं कथक इति ज्ञापनलक्षणेन क्रीतमितिकृत्वा । अथवा
१ प्रवचनी धर्मकथी वादी नैमित्तिकः तपस्वी च । विद्यावान् सिद्धश्च कविरष्टावेव प्रभावका भणिताः ॥ १॥
॥९७॥
Jain Education
anal
For Personal & Private Use Only
ww.jainelibrary.org