SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ सागारि मंख छंदण पडिसेहो पुच्छ बहु गए वासे । कयरिं दिसिं गमिस्सह ? अमुई तहिं संथवं कुणइ ॥ ३१० ॥ दिज्जते पडिसेहो कज्जे घेत्थं निमंतणं जइणं । पुवगय आगएसं तो .शं निमंत्रण जटण। पव्वगय आगएसं संछहढे एगगेहमि ॥ ३११॥ ___ व्याख्या-शालिग्रामो नाम ग्रामः, तत्र देवशर्माभिधानो मङ्खः, तस्य च गृहैकदेशे कदाचित केचित् साधवो वर्षाकालमवस्थिताः, स च मङ्खस्तेषां साधूनामनुष्ठानमरक्तद्विष्टतां चोपलभ्यातीव भक्तिपरीतो बभूव, प्रतिदिवसं च भक्तादिना निमन्त्रयति, साधवश्च शय्यातरपिण्डोऽयमिति प्रतिषेधन्ति, ततः स चिन्तयामास-यथैते मम गृहे भक्तादि न गृह्णन्ति यदि पुनरन्यत्र दापयिष्यामि तथापि न ग्रहीप्यन्ति, तस्माद्वर्षाकालानन्तरं यत्रामी गमिष्यन्ति तत्राग्रे गत्वा कथमप्येतेभ्यो ददामीति, ततः स्तोकशेषे वर्षाकाले साधवस्तेन पच्छिरेयथा भगवन् ! वर्षाकालानन्तरं कस्यां दिशि गन्तव्यं ?, ते च यथाभावं कथयामासुः-यथाऽमुकस्यां दिशि, ततः स तस्यामेव दिशि क्वचिद्गोकुले निजपटमुपदर्य वचनकौशलेन लोकमावर्जितवान्, लोकश्च तस्मै घृतदुग्धादिकं दातुं प्रावर्तिष्ट, ततः स बभाण-यदा याचिष्ये (याचे) तदा दातव्यमिति, साधवश्व वर्षाकालानन्तरं यथाविहारक्रमं तत्राजग्मुः, तेन चात्मानमज्ञापयता पूर्वप्रतिषिद्धघृतदुग्धादिकं प्रतिगृहं याचित्वैकत्र च गृहे संमील्य मुक्तं, ततः साधवो निमन्त्रिताः, तैश्च यथाशक्ति छद्मस्थदृष्टया परिभावितं, परं न लक्षितं, ततः शुद्धमितिकृत्वा गृहीतं, न च तेषां तथा गृह्णतां कश्चिद्दोषः, यथाशक्ति परिभावनेन भगवदाज्ञाया आराधितत्वात् , यदि पुनरित्थंभूतं कथमपि | ज्ञायते तहि नियमतः परिहर्त्तव्यं, क्रीताभ्यवहृतस्थापनारूपदोषत्रयसद्भावादिति । सूत्रं सुगम, नवरं 'सागारिकः' शय्यातरः 'संस्तवः' परिचयः, निजपटप्रदर्शनेन लोकावर्जनमिति तात्पर्यार्थः । तदेवमुक्तं परभावक्रीतं, सम्प्रत्यात्मभावक्रीतं स्पष्टयन्नाह धम्मकह वाय खमणं निमित्त आयावणे सुयट्ठाणे । जाई कल गण कम्मे सिप्पम्मि य भावकीयं तु ॥ ३१२॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy