SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ कारं, तद्यथा-'दव्वे भावे य' अत्र तृतीयार्थे सप्तमी, ततोऽयमर्थः-द्रव्येण क्रीतं भावेन च क्रीतमित्यर्थः, पुनरप्येकै द्रव्यकी भावक्रीतं च प्रत्येकं द्विधा, तद्यथा-आत्मक्रीत परक्रीतं च, आत्मद्रव्यक्रीतमात्मभावक्रीतं च परद्रव्यकीतं परभावक्रीतं चेत्यर्थः, तत्रात्मनास्वयमेव द्रव्येणोज्जयन्तभगवत्पतिमाशेषादिरूपेण प्रदानतः परमावज्यं यद्भक्तादि गृह्यते तदात्मव्यक्रीत, यत्पुनरात्मना स्वयमेव भक्ताद्यर्थ धर्मकथादिना परमावर्ण्य भक्तादि ततो गृह्यते तदात्मभावक्रीतं, तथा यत् परेण साधुनिमित्तं द्रव्येण क्रीतं तत्परद्रव्यक्रीतं, यत्पुनः परेण साध्वर्थ निजविज्ञानप्रदर्शनेनापरमावर्ण्य ततो गृहीतं तत्परभावक्रीतं, तत्र 'विचित्रा सूत्रगति रिति प्रथमतः परद्रव्यक्रीतस्य स्वरूपमाह| परद्रव्यं-गृहस्थसत्कं द्रव्यं त्रिविधं, तद्यथा-'चित्तादि' सचित्तमचित्तं मिश्रं च, तेन परेण साध्वर्थ यत्कीत तत्परद्रव्य फीतम् ॥ उक्त परद्रव्यक्रीतं, सम्पति शेषं भेदत्रयं सामान्यतः कथयति आयकियं पुण दुविहं दव्वे भावे य दव्व चुन्नाई । भावंमि परस्सट्ठा अहवावी अप्पणा चेव ॥ ३०७ ॥ व्याख्या-आत्मक्रीतं पुनविविध, तद्यथा-'दव्वे भावे यत्ति अत्रापि तृतीयार्थे सप्तमी, ततोऽयमर्थः-आत्मनाऽपि क्रीतं द्विधा, तद्यथा-द्रव्येण भावेन च, तत्र द्रव्येण-चूर्णादिना वक्ष्यमाणेन, भावेन पुनः परस्य-साधोराय यन्निनविज्ञानप्रदर्शनादिनोपार्यते तद्भावक्रीतं, परभावक्रीतमित्यर्थः, अथवा भावेन यदात्मना स्वयमेवाहारार्थ धर्मकथादिना परमावर्ण्य ततो गृह्यते तद्भावक्रीतम्, आत्मभावक्रीतमित्यर्थः । तदेवं सामान्यतस्त्रयोऽपि भेदा उक्ताः, सम्प्रत्यात्मद्रव्यक्रीतं सप्रपञ्च विवरीषुरिदमाह निम्मल्लगंधगुलिया वन्नय पोत्ताइ आयकय दवे । गेलने उड्डाहो पउगे चडुगारि अहिगरणं ॥ ३०८ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy