________________
पिण्डनिर्यु - तेर्मलयगि
रीयावृत्तिः
॥ ९५ ॥
कुडस कुणइ छिड्डुं दारं वड्ढेइ कुणइ अन्नं वा । अवणेइ छायणं वा ठावइ रयणं व दिप्पतं ॥ ३०३ ॥ जो पइवे कुणइव तव कहणं तु पुट्ठे दुट्ठे वा । अत्तट्ठिए उ गहणं जोइ पइवे उ वज्जिता ॥ ३०४ ॥
व्याख्या - प्रकाशकरणार्थं कुड्यस्य छिद्रं करोति, यद्वा द्वारं लघु सद् 'वर्द्धयति ' बृहत्तरं करोति, यदिवाऽन्यद्वितीयं द्वारं करोति, अथवा गृहस्योपरितनं छादनं स्फेटयति, यदिवा दीप्यमानं रत्नं स्थापयति, यद्वा – ज्योतिः प्रदीपं वा करोति, तथैवानन्तरोक्तेन प्रकारेण स्वयमेव यदिवा पृष्टे सति प्रादुष्करणे कथिते यद्भक्तादि प्रादुष्करणदोषदुष्टं तत् साधूनां न कल्पते । यदि पुनः प्राक्तनेन प्रकारेणात्मार्थीकरोति तदा ग्रहणं कल्पते इति भावः । ज्योतिः प्रदीपाभ्यां प्रकाशमात्मार्थीकृतमपि न कल्पते, तेजस्कायसंस्पर्शात् । अपरिभुत्तं कप्पड़ कप्पं अकाऊणं ' इति व्याचिख्यासुराह -
पागडपयासकरणे कयंमि सहसा व अहवऽणाभोगा । गहियं विर्गिचिऊणं गेहइ अन्नं अकयकप्पे ॥ ३०५ ॥
व्याख्या– प्रकटकरणे प्रकाशकरणे वा कृते सति यत् सहसाऽनाभोगतो वा गृहीतं तद् 'विर्गिचिऊणं' परिष्ठाप्य तस्मिन् पात्रे | उज्झिते लेशमात्रखरण्टितेऽपि 'अकृतकल्पे ' जलप्रक्षालनरूपकल्पदानाभावेऽप्यन्यत् शुद्धं गृह्णाति, नास्ति कश्विदोषो, विशोधिकोटित्वात् ॥ उक्तं प्रादुष्करणद्वारम् अथ क्रीतद्वारमाह
Jain Education International
कीयगर्डपि य दुविहं दव्वे भावे य दुविहमेक्वेक्कं । आयकियं च परकियं परदव्यं तिविह चित्ताई ॥ ३०६ ॥ व्याख्या - क्रयणं क्रीतं तेन कृतं निष्पादितं क्रीतकृतं क्रीतमित्यर्थः, तदपि आस्तां प्रादुष्करणमित्यपिशब्दार्थः, 'द्विविधं द्विप
For Personal & Private Use Only
उद्गमैषणा
यां प्रादुष्क
रणदोष: ७
॥ ९५ ॥
www.jainelibrary.org