________________
द्रष्टव्या, द्वितीया बहिरेव तेषां साधूनां निमित्तं चुल्ली पुरा कृता आसीत्, चशब्दाचदानी वा साधुनिमित्तं बहिश्चुल्ली कृता वेदितव्या, सा च तृतीया । ततो यदि कदाचित्तत्र तिसृणां चुल्लीनामन्यतमस्यां गृहस्था राध्यन्ति ततो द्वौ दोषौ, तद्यथा-उपकरणपूतिः प्रादुकरणं च, यदा च चुल्याः पृथकृतं तदेयं वस्तु तदा प्रादुष्करणरूप एवैकः केवलो दोषः, पूतिदोषस्तूत्तीर्णः, यदा चुल्योऽपि शुद्धास्तदापि प्रादुष्करणरूप एवैको दोषः । यदर्थ प्रादुष्करणं गृहस्था कृतवती तं भिक्षायै गृहमागच्छन्तं दृष्ट्वा यजुत्वेन भाषते तदाहनेच्छह तमिसंमि तओ बाहिरचुल्लीऍ साहु सिद्धण्णे । इय सोउं परिहरए पुढे सिलुमिवि तहेव ॥ ३०१ ॥
व्याख्या-हे साधो ! त्वं 'तमिस्र' अन्धकारे भिक्षां नेच्छसि ततो बहिश्चुल्यां सिद्धं पकम् 'अन्न 'मिति अस्माभिर्भक्तमिति श्रुत्वा तया दीयमानं परिहरति, पादुष्करणदोषदुष्टत्वात् , तथा प्रादुष्करणशङ्कायां किमर्थमयमाहारोऽद्य गृहस्य बहिस्तात्पकः ?, इत्येवं पृष्टे तया ऋजुतया यथावस्थिते कथिते तथैव परिहरति, एतेनाद्यगाथायां 'संकामण' इत्यवयवो व्याख्यातः । नन्वयं सङ्कामणकृत आहारः केनापि प्रकारेण कल्पते? किं वा न ? इति, उच्यते, आत्मार्थीकृतः कल्पते, कथमस्यात्मार्थीकरणसम्भव ? इति चेदत आह
मच्छियधम्मा अंतो बाहि पवायं पगासमासन्नं । इय अत्तट्ठियगहणं पागडकरणे विभासेयं ॥ ३०२॥
व्याख्या-साध्वर्थ पूर्व बहिश्चल्यादि कृत्वा काचिदेवं चिन्तयति-गृहस्यान्तर्मक्षिका धर्मश्च, उपलक्षणमेतत् , तेनान्धकार दूरं च पाकस्थानाद्भोजनस्थानमित्यादिपरिग्रहः, बहिश्च प्रवातं तेन मक्षिकादयो न भवन्ति, तथा प्रकाशमासन्नं च पाकस्थानाद्भोजनस्थानं, ततो | वयमत्रैवात्मनिमित्तमपि सदैव पक्ष्याम इत्येवमात्मार्थीकृते ग्रहणं, कल्पते इति भावः। इयं प्रकटकरणे कल्प्याकल्प्यविषया विभाषा, सम्पति प्रकाशकरणं स्पष्टयन् 'कुड्डदारपाए' इत्यादि व्याचिख्यासुराह
dain Education International
For Personal & Private Use Only
www.jainelibrary.org