________________
पिण्डनियुतेर्मलयगिरीयावृत्तिः
॥९४॥
000000000000000000000000००००००००
रयणपईवे जोई न कप्पइ पगासणा सुविहियाणं । अत्तहि अपरिभुत्तं कप्पइ कप्पं अकाऊणं ॥ २९९ ॥
| उद्गमैषणाव्याख्या-प्रादुष्करणं द्विधा, तद्यथा-प्रकटकरणं प्रकाशकरणं च, तत्र 'प्रकटकरणम्' अन्धकारादपसार्य बहिः प्रकाशे स्थापन,
यां प्रादुष्क'प्रकाशकरणं' स्थानस्थितस्यैव भित्तिरन्ध्रकरणादिना प्रकटीकरणम् , एतदेवाह-तत्र प्रकटकरणमन्धकारादन्यत्र सङ्क्रामणेन प्रकाश
रणदोषः७ करणं, 'कुड्डदारपाए' इत्यादि, अत्र सर्वत्रापि तृतीयार्थे सप्तमी, कुड्यस्य द्वारपातेन-रन्ध्रकरणेन, यदिवा कुड्येन मूलत एव छिन्नेन येन ||कुड्येन कुड्यैकदेशेन याऽन्धकारमासीत् तेन मूलत एवापनीतेनेत्यर्थः, चशब्दादन्यस्य द्वारस्य करणेन चेत्यादिपरिग्रहः, तथा 'रत्नेन । पद्मरागादिना 'प्रदीपेन' प्रतीतेन 'ज्योतिषा' ज्वलता वैश्वानरेण तत्रैवं प्रकाशना मुविहितानां न कल्पते, किमुक्तं भवति ?-प्रकाशकरणेन प्रकटकरणेन च यद्दीयते भक्तादि तत्संयतानां न कल्पते, तत्रैवापवादमाह–अत्तहि 'त्ति आत्मार्थीकृतं तदपि कल्पते, नवरं ज्योति प्रदीपौ वर्जयेत् , ताभ्यां प्रकाशितमात्मार्थीकृतमपि न कल्पते, तेजस्कायदीप्तिसंस्पर्शनात, साधुपात्रमाश्रित्य विधिमाह-इह सहसाकारादिना प्रादुष्करणदोषाघातं कथमपि भक्तं पानं वा गृहीतं ततस्तद् अपरिभुक्तम् उपलक्षणमेतद् अर्द्धभुक्तमपि परिस्थाप्योद्धरितसिक्थुलेपादिना खरण्टितेऽपि तस्मिन् पात्रे 'कल्पं ' जलप्रक्षालनरूपमकृत्वाप्यन्यत् शुद्धं ग्रहीतुं कल्पते । एतदेव गाथाद्वयं विवरीषुः । प्रथमतश्चुल्लीसङ्क्रमणमाश्रित्य प्रकटकरणं स्पष्टयति
॥९४॥ संचारिमा य चुल्ली बहिं व चुल्ली पुरा कया तेसिं । तहि रंधंति कयाई उवही पूई य पाओ य ॥ ३०॥ व्याख्या-इह त्रिधा चुल्ली, तद्यथा-एका सञ्चारिमा या गृहाभ्यन्तरवर्त्तिन्यपि बहिरानेतुं शक्यते, चशब्दात्साऽप्याधाकर्मिकी
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org