SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ एवं विचिन्त्य परतो वीवाहं करोति, इदं च विवाहस्यावष्वष्कणमुत्वष्कणं वा कृत्वा यदुपस्क्रियते भक्तादि सा बादरा प्राभृतिका ॥ सम्पत्यपसर्पणरूपां सूक्ष्मप्राभृतिका भाष्यकृद्गाथाद्वयेनाह कन्तामि ताव पेलुं तो ते देहामि पुत्त! मा रोव । तं जइ सुणेइ साहू न गच्छए तत्थ आरंभो ॥३५॥ (भा०) अन्न? उहिया वा तुब्भवि देमित्ति किंपि परिहरति । किह दाणि न उहिहिसी ? साहुपभावेण लब्भामो॥३६॥ (भा०). व्याख्या-काचित्कर्त्तनं कुर्वती भोजनं याचमानं बालकं प्रति वदति-कृणन्मि तावदिदं पेलु' रूतपूणिकां, कृणन्मीति 'कृदुपवेष्टने ' इत्यस्य रौधादिकस्य प्रयोगः, ततः पश्चात् 'ते' तुभ्यं दास्यामीति मा रोदीः, अत्रान्तरे च साधुरागतो यदि शृणोति तर्हि तत्र गृहे न गच्छति, न तत्र भिक्षां गृह्णातीत्यर्थः, मा भूत्साधुनिमित्त आरम्भो बालकभोजनदानतदनन्तरहस्तधावनादिरूपः, सा हि साध्वर्थमुत्थिता सती बालकस्यापि भोजनं ददाति, ततो हस्तधावनादिनाऽप्कायादिकं च विनाशयति, इह रूतपूणिकाकर्त्तनसमाप्त्यनन्तरं दातव्यतया बालकाय प्रतिज्ञाते भोजने साधुनिमित्तमर्वागुत्थानेन यदागेव बालस्य भोजनदानं तदवसर्पणम् , अथवा गृहस्था कर्त्तनं कुर्वती भोजनं याचमानं पुत्रं प्रति वदति-'अन्यार्थम्' अन्येन प्रयोजनेनोत्थिता सती 'तवापि' तुभ्यमपि किमपि खादिमादि दास्यामि, अत्रातरे च साधुरागत एवं श्रुते परिहरति, अथवा तथाभूतगृहस्थावचनानाकर्णनेऽपि साधौ समागते बालको जननीं वदति-कथमिदानी नोत्थास्यसि ?, समागतो ननु साधुस्ततोऽवश्यमुत्थातव्यं त्वया, तथा च सति साधुप्रभावेण वयमपि लप्स्पामहे, तत एवं बालकवचनं श्रुत्वा तया दीयमानं परिहरति, मा भूदवसप्र्पणरूपसूक्ष्मप्राभृतिकादोषः । सम्प्रत्युत्सर्पणरूपां सूक्ष्मप्राभृतिकां गाथाद्वयेनाह Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy