________________
܀܀
उद्गमैषणा-. यां स्थाप
नादोष:५
पिण्डनियु- गुल्यादिपर्यायापादनपुरस्सरं ध्रियमाणानां स्थापना परम्परास्थापना, एवमन्यत्रापि द्रव्यान्तरे यत्रैवं परम्परया स्थापना घटते तत्र पर- क्तेमलयागि- म्परास्थापना द्रष्टव्या । यावच्च स्थापितस्य नाधाकर्मसम्भवस्तावदात्मार्थीकृतं कल्पते, कृतपाकारम्भं तु न कल्पते । सम्पति 'हत्थगय घररीयावृत्तिः तरं जाव' इति व्याचिख्यासुराह
भिक्खागाही एगत्थ कुणइ बिइओ उ दोस उवओगं । तेण परं उक्खित्ता पाहुड़िया होइ ठवणा उ ॥ २८४ ॥ ॥९ ॥
व्याख्या-भिक्षाग्राही एकत्रोपयोगं करोति, द्वितीयस्तु द्वयोहयोः, तत्र त्रिषु गृहेषूपयोगसम्भवे स्थापनादोषो न भवति, गृहत्रयात्परं साध्वर्थमुत्पाटिता भिक्षा प्राभृतिका स्थापना भवति ॥ उक्तं स्थापनाद्वारं, सम्प्रति प्राभृतिकाद्वारमभिषित्सुराह
पाहुडियावि हु दुविहा बायर सुहुमा य होइ नायव्वा । ओरसक्कणमुस्सकण कब्बट्ठीए समोसरणे ॥२८५॥ | व्याख्या-द्विविधा प्राभृतिका, तद्यथा-चादरा सूक्ष्मा च, एकैकापि द्विधा, तद्यथा-अवष्वष्कणेनोत्ष्वष्कणेन च, सूत्रे चात्र विभक्तिलोप आषेत्वात् , तत्र 'अवष्वष्कणं' खयोगप्रवृत्तनियतकालावधेराकरणम् 'उत्वष्कणं' परतः करणं, तत्र बादरमाभृतिकाविषयमाह-'कब्बट्टीए समोसरणे' इह समयपरिभाषया कब्बट्ठी लध्वी दारिका भण्यते तस्याः सत्कस्य, उपलक्षणमेतत्, पुत्रादेश्व | सत्कस्य वीवाहस्यावष्वष्कणमुत्वष्कणं वा 'समवसरणे' साधुसमुदायविषये, इयमत्र भावना-साधुसमुदायं यथाविहारक्रममायातं | |दृष्ट्वा कोऽपि श्रावकश्चिन्तयति, यथा-ज्योतिर्विदोपदिष्टे विवाहदिने यदि विवाहः क्रियते ततोऽर्बागेव सुविहितजनो विहारक्रमेण गमि- सष्यति ततो न किमपि मदीयं विवाहसम्भवं मोदकादिकं तण्डुलधावनादि वोपकरिष्यते, तत एवं चिन्तयित्वा ग विवाहं करोति, यदि
वा भूयान् सुविहितजनो यथाविहारक्रममागच्छन् श्रूयते वीवाहश्च तदागमनादर्वाक् ततो न किमपि तेषां मदीयमुपकरिष्यतीति, तत |
点令哈哈哈哈999999999999令令令令令令
॥९१ ॥
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org