SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ साधुना चोक्तं-लब्धमन्यत्र मया दुग्धं, ततो यदि भूयोऽपि प्रयोजनं भविष्यति तर्हि 'घेत्यो'गृहीष्यामि, एवमुक्तं साऽगारिणी ऋणभीतेव स्वयं नोपबुभुजे, किन्त्वेवं चिन्तयामास-श्व:' कल्ये दधि कृत्वा दास्यामीति, तत एवं चिन्तयित्वा स्थापयति, ततो द्वितीयदिने दधि जातं तदपि साधुना न गृहीतं, ततो नवनीतं तक्रं च जातं, नवनीतमपि घृतं कृतं, इह क्षीरादिकं सकलमपि स्थापनादोषदुष्टत्वात् साधूनां । न कल्पते, यद्वा क्षीरादिकं यावन्नवनीतं मस्तु तकं वा तावदेतानि सर्वाण्यप्यात्मार्थीकृतानि मा गृह्णीयात् साधुः कुटुम्बे भविष्यतीत्येवमात्मसत्ताकीकृतानि साधवो गृह्णन्ति । घृतं त्वात्मार्थीकृतमपि तेजःकायाऽऽरम्भादाधाकर्मेति न कल्पते, घृतं च स्थापितं सत् तावद घटते यावद्देशोना पूर्वकोटी, तथाहि-पूर्वकोटयायुषा केनापि साधुना वर्षाष्टकप्रमाणेन कस्याश्चित्पूर्वकोट्यायुपोऽगारिण्याः पार्थे घृतं ययाचे, तयोक्तं-क्षणान्तरे दास्यामि, साधुना चान्यत्र घृतं लब्धं, ततः सा ऋणभीतेव तावद् घृतं धृतवती यावत् साधोरायुः, ततो मृते साधौ तदन्यत्रोपयुक्तमिति नास्ति स्थापना, इह वर्षाष्टकस्याधः पूर्वकोटेरुपरि च चारित्रं न भवति, चारित्रिणं चाधिकृत्य स्थापनादोषः, ततो देशोना पूर्वकोटीत्युक्तम् । एवं गुडादेरप्यविनाशिनो द्रव्यस्य यथायोग स्थापनाकालपरिमाणं द्रष्टव्यं । 'कुमुणियपित्ति कुसुणितमपि करम्बादिरूपतया कृतमपि यावन्तं कालमविनाशि तावत्कालं तस्य स्थापना द्रष्टव्या, परतस्तु कुथितत्वादुज्झ्यते एवेति भावः ॥ तदेवं क्षीरादिकं परम्परास्थापितमुक्तं, साम्पतमिक्षुरसादिकमपि परम्परास्थापितमाह रस कक्कब पिंडगुला मच्छंडिय खंडसकराणं च । होइ परंपरठवणा अन्नत्थ व जुज्जए जत्थ ॥ २८३ ॥ 'व्याख्या-इह केनापि साधुना किमपि प्रयोजनमुद्दिश्य कोऽपीक्षुरसं याचितः, स च प्रतिज्ञातवान्-क्षणान्तरे दास्यामि, साधुना चान्यत्रेचरसो लब्धः, पूर्वमभ्यर्थितश्च ऋणभीत इव तमिक्षुरसं ककवं करोति यावत् शर्करेति, एषां चक्षुरसककबादीनामुत्तरोत्तरपिण्ड-17 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy