________________
पिण्डनियु- तेर्मलयागिरीयावृत्तिः
स्थापनादोषे स्व. परस्थान विकार्य विकारि द्रव्य| विचारः
॥९
॥
न हि तस्य भूयोऽपि विकारः सम्भवति तत्साधुनिमित्तं स्थापितमनन्तरम्-अनन्तरस्थापित, उपलक्षणमेतत् , तेन क्षीरादिकमपि यस्मिन् दिने साधुनिमित्तं स्थापितं यदि तस्मिन्नेव दिने ददाति तर्हि तदपि दध्यादिरूपं विकारान्तरमनापद्यमानमनन्तरस्थापितं द्रष्टव्यं, तदेव तु क्षीरं साधुनिमित्तं धृतं सद्दध्यादिरूपतया परिकर्म्यमाणं परम्परास्थापितं भवति, एवमिक्षुरसादिकमपि तस्मिन्नेव दिने स्थापितं दीयमान- मनन्तरस्थापित, कक्कबादिरूपतया तु परिकर्म्यमाणं परम्परास्थापितमिति । सम्पति विकारीतराणि द्रव्याणि प्रतिपादयति
उच्छुकूखीराईयं विगारि अविगारि घयगुलाईयं । परियावज्जणदोसा ओयणदहिमाइयं वावि ॥ २८॥ व्याख्या-इक्षुक्षीरादिकं विकारि तस्य ककबादिदध्यादिविकारसम्भवात् , घृतगुडादिकं त्वविकारि तस्य भूयोऽपि विकारासम्भवात् , तथा 'ओदनदध्यादिकमपि ' करम्बादिरूपं विकारि, कुत इत्याह-पर्यापादनदोषात्, करम्बादिकं हि ध्रियमाणं नियमात् पर्यापद्यते-कोथमायातीत्यर्थः, ततस्तदपि विकारि द्रव्यं । तदेवं विकारीतराणि द्रव्याण्यभिहितानि, सम्पति क्षीरादिकं परम्परास्थापितं भावयति
उब्भट्ठपरिन्नायं अन्नं लद्धं पओयणे घेत्थी । रिणभीया व अगारी दहित्ति दाहं सुए ठवणा ॥ २८१ ॥ नवणीय मंथतकं व जाव अत्तट्टिया व गिण्हंति । देसणा जाव घयं कसणंपि य जत्तियं कालं॥२८२॥
व्याख्या-'उभट्ट'त्ति केनापि साधुना कस्याश्चिदगारिण्याः सकाशे क्षीरमभ्यर्थितं, ततस्तया प्रतिज्ञातं-क्षणान्तरे दास्यामि, साधुना चान्यत्रान्यत् क्षीरं लब्धं, ततः पूर्वमभ्यर्थितयाऽगारिण्या दुग्धसम्पाप्तौ सत्यां साधु प्रति प्रत्यपादि-गृहाण भगवन्निदं दुग्धमिति,
99999999999999999999999999994
॥९०॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org