________________
तत एतौ स्थानरूपं स्वस्थानं, भाजनरूपं तु स्वस्थानं 'पिठरं' स्थाली, तत्र स्थानस्वस्थाने भाजनस्वस्थाने च चत्वारो भङ्गाः, तद्यथाचुल्यां स्थापितं पिठरे च १, चुल्यां स्थापितं न पिठरे छब्बकादौ स्थापितत्वात २, न चुल्यां किन्तु पिठरे, तच्च चुल्यवचुल्लाभ्यामन्यत्र प्रदेशान्तरे स्थापितं द्रष्टव्यं ३, न चुल्यां न पिठरे चुल्यवचुल्लाभ्यामन्यत्र छब्बकादौ स्थापितमित्यर्थः ४ । सम्पति परस्थानमाह
छब्बगवारगमाई होइ परटाणमो वऽणेगविहं । सटाणे पिढरे छब्बगे य एमेव दूरे य ॥ २७८ ॥ व्याख्या-छब्बकवारकादिकमनेकविधं भाजनं परस्थानं भवति द्रष्टव्यं, तत्र 'छब्बक' पटलिकादिरूपं, 'वारक' लघुर्घटः, आदिशब्दापाकभाजनवर्जचुल्यवचुल्लवर्जशेषसकलभाजनपरिग्रहः, अत्रापि स्वस्थानपरस्थानापेक्षया चतुर्भङ्गी, तद्यथा-वस्थाने स्वस्थाने, स्वस्थाने परस्थाने, परस्थाने स्वस्थाने, परस्थाने परस्थाने । एनामेव चतुर्भङ्गों दर्शयति-सटाण' इत्यादि, अत्र 'सहाणे पिढरे । छब्बगे य' इत्यनेन भङ्गाद्वयं सूचितं, स्वस्थानस्य पिठरछब्बकाभ्यां प्रत्येकमभिसम्बन्धात, तद्यथा-स्वस्थाने चुल्यादौ पिठरे च, तथा । स्वस्थाने चुल्यादौ छब्बके च परस्थाने, 'एमेव दूरे य'त्ति इह दूरं चुल्यवचुल्लाभ्यामन्यत्मदेशान्तरं, तत्रापि तदपेक्षयाऽपि एवमेव भङ्गद्वयं द्रष्टव्यं, तद्यथा-भाजनरूपे स्वस्थाने पिठरे परस्थानेऽन्यत्र प्रदेशान्तरे, तथा परस्थानेऽन्यत्र प्रदेशान्तरे परस्थाने छब्बगादाविति सर्वसङ्ख्यया चत्वारो भङ्गाः । तदेवं मूलगाथायाः सहाणेत्यादिपूर्वार्दै व्याख्यातम् । अथ 'खीराइ परंपरए' इति व्याचिख्यासुराह
एकेकं तं दुविहं अणंतरपरंपरे य नायव्वं । अविकारिकयं दव्वं तं चेव अणंतरं होइ ॥ २७९ ॥
व्याख्या-तत्साधुनिमित्तं स्थापितमेकैकं स्वस्थानगतं परस्थानगतं च द्विविधं ज्ञातव्यं, तद्यथा-'अनन्तरे' अन्तराभावे, विकाररूपव्यवधानाभावे इत्यर्थः, 'परम्परके ' विकारपरम्परायामित्यर्थः, तत्र यत् का स्वयोगेनाविकारि भूयोऽसम्भविविकारं घृतगुडादि कृतं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org