________________
.
पिण्डनियुतेर्मलयगिरीयावृत्तिः
॥८९॥
भेदाः
शुष्कगोमयरूपेण उद्धर्तिते पश्चात् त्रयः कल्पा दीयन्ते, तत आतपे तद् भाजनं शोषयित्वा पश्चात्तस्मिन्नट्यते-शुद्धं गृह्णाति, नान्यथा, पूति- ४ मिश्रजादोषसम्भवात् , अन्ये तु सूरयः प्राहु:-चतुर्थे कल्पे दत्ते सति अशुष्केपि, गृह्णन्ति, नास्ति कश्चिद्दोषः, अयं च प्रक्षालनविधिः सर्वत्राप्यशो- ते कल्पकधिकोटिग्रहणे वेदितव्यः, उक्तं मिश्रद्वारम् । अथ स्थापनाद्वारमाह
रण विधिः सटाणपरटाणे दुविहं ठवियं तु होइ नायव्वं । खीराइ परंपरए हत्थगय घरंतरं जाव ॥ २७७ ॥
५स्थापनाव्याख्या स्थापितं साधुनिमित्तं घृतभक्तादि, तच्च द्विधा, तद्यथा-स्वस्थाने परस्थाने च, तत्र स्वस्थानं चुल्यवचुल्यादि, परस्थानं छब्बकादि, एकैकं द्विधा-अनन्तरं परम्परं च, तत्र यस्य साधुनिमित्तं स्थापितस्य सतो विकारान्तरं न भविष्यति यथा घृतादेस्तदनन्तरस्थापितं । क्षीरादिकं तु परम्परके परम्परास्थापितं , तथाहि-क्षीरं स्थापितं सदधि भवति, तद्दधि भूत्वा नवनीतं, नवनीतं || भूत्वा घृतं, ततो यदैव साधुनिमित्तं क्षीरं धृत्वा घृतीकृत्य ददाति तदा तत् क्षीरं परम्परास्थापितं भवति, एवमन्यदपीक्षुरसादिकं द्रष्टव्यं, तथा पतिस्थिते गृहत्रये उपयोगावकाशसम्भवे सति हस्तगतासु तिसृषु भिक्षास्वेकः साधुरेका भिक्षां सम्यगुपयोगेन परिभावयन् गृह्णाति, || द्वितीयस्तु द्वयोहयोर्हस्तगते द्वे भिक्षे परिभावयति, ततो गृहत्रयात्परतो यावद्गृहान्तरं न भवति तावन्न तस्य स्थापनादोषः, गृहान्तरे तु साधुनिमित्तं हस्तगता भिक्षा स्थापना, तत्रोपयोगासम्भवात् । तत्रैनामेव गाथां भाष्यकृयाचिख्यासुः प्रथमतः स्वस्थानमाह
चुल्ली अवचुल्लो वा ठाणसठाणं तु भायणं पिढरे । सटाणट्राणंमि य भायणठाणे य चउभंगा ॥३४॥ (भा०) ||॥८९॥ .
व्याख्या-द्विविधं स्थानं, तद्यथा-स्थानस्वस्थानं भाजनखस्थानं च, तत्र स्थानरूपं स्वस्थानं चुल्ली अवचुल्लो वा, चुल्या अव-पचादवचुल्लो, राजदन्तादित्वादवशब्दस्य पूर्वनिपातोऽदन्तता च, तत्र 'चुल्ली प्रतीता, 'अवचुल्ल' अवल्हकः, एतयोश्च स्थितं सद् भक्तं पच्यते,
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
jalt Education International
For Personal & Private Use Only
EUw.jainelibrary.org