________________
व्याख्या-आत्मार्थ ' कुटुम्बार्थ गृहिण्या 'राध्यमाने ' पच्यमाने गृहनायको यावदर्थिकमिश्रप्रवर्तकगृहनायकापेक्षया द्वितीयो भणति, यथा पाखण्डिनामप्यर्थायाधिक प्रक्षिप । तथाऽऽत्मार्थमेव राध्यमाने तृतीयो गृहनायको ब्रूते, यथा-निर्ग्रन्थानामर्थायाधिक प्रक्षिपेति ।। तत एवं श्रुते पाखण्डिमिश्रसाधुमिश्रयोरपि परिज्ञानं भवति । सम्पति यदुक्तमेतत् ' मिश्रजातं पुरुषसहस्रान्तरगतमपि न कल्पते' इति, तदृष्टान्तेन भावयतिविसघाइय पिसियासी मरइ तमन्नोवि खाइउं मरइ । इय पारंपरमरणे अणुमरइ सहस्ससो जाव ॥ २७४ ॥
व्याख्या-इह कोऽपि वेधकेन विषेण घातितः, तस्य पिशितं योऽश्नाति सोऽपि म्रियते, तस्यापि मांसं यो भक्षयति सोऽपि म्रियते, एवं परम्परया मरणे तावद् 'अनु' पाश्चात्यः पाश्चात्यो म्रियते, यावत्ते म्रियमाणाः सङ्ख्यया सहस्रशो भवन्ति । इत्थं सहस्रवेधकस्य विपस्य प्रभावः यत्सहस्रान्तरगतमपि मारयतीति भावः ।
एवं मीसज्जायं चरणप्पं हणइ साहु सुविसुद्धं । तम्हा तं नो कप्पइ पुरिससहस्संतरगयपि ॥ २७५ ॥
व्याख्या-एवं ' सहस्रवेधकविषमिव यावदर्थिकपाखण्डिसाधुविषयं मिश्रजातमप्येकेनान्यस्मै दत्तं तेनाप्यन्यस्मायित्येवं परम्परया पुरुषसहस्रान्तरगतमपि साधोः सुविशुद्धं चरणात्मानं हन्ति, तस्मान्न कल्पते साधूनां सहस्रान्तरगतमपि मिश्रं । सम्पति साधुविषयं विधिमाहनिच्छोडिए करीसेण वावि उव्वट्टिए तओ कप्पा । सुक्कावित्वा गिण्हइ अन्न चउत्थे असुक्केऽवि ॥ २७६ ॥ व्याख्या-मिश्रे कथमपि गृहीते पश्चात्तस्मिंस्त्यक्ते सति भाजने 'निच्छोटिते' अङ्गाल्यादिना निरवयवे कृते यद्वा 'करीषेण'
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org