________________
४मिश्वजाते भेदाः कल्प्याकल्य ते च
पिण्डनियु- विधिमाह-येन भाजनेन तन्मिश्रं गृहीतं तस्मिन् भाजने मिश्रपरित्यागानन्तरं 'कल्पे ' प्रक्षालने त्रिगुणे कृतेऽन्यत् शुद्धं ग्रहीतुं कल्पते तेर्मलयगि- नान्यथा । एनामेव गाथां भाष्यकृयाचिख्यासुः प्रथमतो मिश्रजातस्य सम्भवमाहरीयावृत्तिः
दुग्गासे तं समइच्छिउं व अडाणसीसए जत्ता । सड्ढी बहुभिक्खयरे मीसज्जायं करे कोई ॥ ३३ ॥ ( भा.) ॥८८॥ ___ व्याख्या-दुःखेन ग्रासो यत्र तद् दुर्गासं-दुर्भिक्षं तस्मिन् भिक्षाचरसत्त्वानुकम्पया, यद्वा तद् दुर्भिक्षं समतिक्रान्तः कश्चिद् बुभुक्षा
कष्टं महत्परिज्ञाय यदिवा 'अध्वशीर्षके ' कान्तारादिनिर्गमरूपे प्रवेशरूपे खिन्नभिक्षाचरानुकम्पया यद्वा 'यात्रायां' तीर्थयात्रादिरूपे हा उत्सवविशेपे दानश्रद्धया कोऽपि 'श्रद्धी' श्रद्धावान् बहुन् भिक्षाचरानुपलभ्य 'मिश्रजातं ' पूर्वोक्तशब्दार्थ करोति । सम्पति यावदर्थिकस्य मिश्रजातस्य परिज्ञानोपायमाह--
जावंतहा सिद्धं नेयं तं देह कामियं जइणं । बहुसु व अपहुप्पंते भणाइ अन्नपि रंधेह ॥ २७२ ॥
व्याख्या-काचित् किमपि साधवे ददती कयाचित्पतिषिध्यते-नेदं दीयमानं यावदर्थ सिद्धं-यावन्तः केचनापि भिक्षाचराः समागमिष्यन्ति तेषामर्थाय सिद्धं, किन्तु विवक्षितं, तस्मात्तदेहि यतिभ्यः कामितं यावद्गृह्णन्ति तावत्प्रमाणं, यद्वा प्रचुरेषु भिक्षाचरेषु समागच्छत्सु अग्रेतनप्रमाणे राध्यमाने 'अप्रभवति ' अपूर्यमाणे गृहनायको भणति-नैतावता राद्धेन सरिष्यति ततोऽन्यदप्यधिकं प्रक्षिप्य राध्नुहि, एवं श्रुते यावदर्थिकं मिश्रं परिज्ञायते, ज्ञात्वा च परिहर्त्तव्यमिति । सम्पति पाखण्डिमिश्रसाधुमिश्रे प्रतिपादयति
अत्तठ्ठा रंधते पासंडीणंपि बिइयओ भणइ । निग्गंथट्ठा तइओ अत्तट्ठाएऽवि रंधते ॥ २७३ ॥
॥८८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org