________________
दिवसे संखडी आसि संघभत्तं वा । पुच्छित्तु निउणपुच्छं संलावाओ वडगारीणं ॥ २७० ॥
व्याख्या—इह प्रथमत आगतेन श्राद्धगृहे तथाविधं किमपि सङ्घड्यादि चिह्नमुपलभ्य पूतिदोषसंशयभावे श्राद्धस्य पार्श्वे उपलक्ष|णमेतत् श्राविकादेव पार्श्वे निपुणपृच्छं प्रष्टव्यं यथा - युष्माकं गृहे ' स्तोकदिवसेषु स्तोकदिवसमध्ये, प्रभूतदिवसातिक्रमेण पूतिदोषो न सम्भवतीति स्तोकदिवसग्रहणं, 'सङ्घडि: ' वीवाहादिप्रकरणरूपा सङ्घभक्तं वा दुत्तमासीत् ?, सङ्खड्यां वा साधुनिमित्तं किमपि कृतं आभवत् ?, ततस्तद्दिनादर्वागू दिनत्रयं पूतिरितिकृत्वा परिहर्त्तव्यं, चतुर्थादिषु तु दिनेषु परिग्राह्यम्, अथवा कापि प्रश्नमन्तरेणाप्यगारिणीनां संलापात् पूतिरपूतिर्वेति ज्ञातव्यं, ता हि अपृष्टा एवान्यमुद्दिश्य कथयन्ति यथाऽस्माकं श्वः परतरे वा दिने सङ्घभक्तं दत्तमासीत्, यद्वासङ्घडिः सङ्घड्यां च कृतं साध्वर्य प्रभूतमशनादिकमिति, तत एवं तासां संलापानाकर्ण्य पूत्यपूती ज्ञात्वा परिहारग्रहणे कार्ये, उक्तं पूर्ति - द्वारं सम्प्रति मिश्रजातद्वारमाह
मीसज्जायं जावंतियं च पासंडिसाहुमीसं च । सहसंतरं न कप्पइ कप्पइ कप्पे कए तिगुणे ॥ २७१ ॥
व्याख्या — मिश्रजातं त्रिधा, तद्यथा - यावदर्थिकं पाखण्डिमिश्रं साधुमिश्रं च तत्र यावन्तः केचन गृहस्था अगृहस्था वा भिक्षाचराः समागमिष्यन्ति तेषामपि भविष्यति कुटुम्बे चेतिबुद्धया सामान्येन भिक्षाचरयोग्यं कुटुम्बयोग्यं चैकत्र मिलितं यत्पच्यते तद्यावदर्शिकं मिश्रजातं । यत्तु केवलपाखण्डियोग्यमात्मयोग्यं चैकत्र पच्यते तत्पाखण्डिमिश्रं । यत्पुनः केवलसाधुयोग्यमात्मयोग्यं चैकत्र पच्यते तत्साधुमिश्रं । श्रमणानां पाखण्डिष्वन्तर्भावविवक्षणात् श्रमणमिश्रं पृथनोक्तम् । एतच मिश्रजातं ' सहस्रान्तरमपि ' सहस्रान्तरे गतमपि - येन तत्कृतं तेनान्यस्मै दत्तं तेनाप्यन्यस्मै यावत्सहस्रतमाय दत्तं, ततोऽपि परं यदि साधवे ददाति तथापि न कल्पते । भाजनशुद्धौ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org