________________
वात, ततो यदा तदा वा काप्याधाकर्मसम्भवे सर्वेषामपि साधूनामशुद्धिः प्रामोतीति, नैष दोषो, गन्धादिपुद्गलानां चरणभ्रंशापादनसामर्थ्यायोगात, न चैतदनुपपन्नं, लोकेऽपि तथा दर्शनात्, तथाहि
लोएवि असुइगंधा विपरिणया दूरओ न दूसंति । नय मारंति परिणया दूरगयाओ(अवि) विसावयवा ॥ २६५ ॥
व्याख्या-लोकेऽपि ' अशुचिगन्धाः' अशुचिसत्का गन्धपुद्गला दूरत आगता विपरिणताः सन्तः स्पृष्टा अपि 'न दुष्यन्ति' न स्पृष्टिदोषमशुचिस्पर्शनरूपं लोकप्रसिद्धं जनयन्ति, न च विषावयवा अपि दूरगताः सन्तः 'परिणताः' पर्यायान्तरमापन्ना मारयन्ति, तथेहाप्याधाकर्मणः सम्बन्धिनो गन्धादिपुरला दूरतः समागच्छन्तो विपरिणता न चरणमाणान् विनाशयितुमीशाः, नाप्याधाकर्मसंस्पर्शलक्षणं दोषं जनयन्तीति । तदेवमिन्धनाद्यवयवापेक्षया यः सूक्ष्मपूतिस्तमपरिहार्य प्रतिपाद्य सम्प्रति शेषद्रव्यपूर्ति परिहार्य प्रतिपादयति
सेसेहि उ व्वेहिं जावइयं फुसइ तत्तियं पूई । लेवेहि तिहि उ पूई कप्पइ कप्पे कए तिगुणे ॥ २६६ ॥
व्याख्या-'शेषैः' इन्धनाद्यवयवव्यतिरिक्तैः शाकलवणादिभिर्यावस्थाल्यादिपरिमितं द्रव्यं स्पृष्टं भवति तावत्प्रमाणं पूतिः, तथा त्रिभिलेपैः पूतिः, इयमत्र भावना-स्थाल्यां किलाधाकर्म राद्धं, ततस्तस्या अपनीतम् , अपनीते च तस्मिन् या पाश्चात्या खरण्टिः सा एको लेपः, ततस्तस्यामेव स्थाल्यामकृतकल्पत्रयायां शुद्धं राद्धं पूतिः, एवं वारद्वयमन्यदपि राद्धं पूतिः, चतुर्थे तु वारे राद्धं न पूतिः, अथात्मयोगेन यदि गृहस्थाः तस्याः स्थाल्याः निःशेषावयवापगमाय कल्पत्रयं ददाति तर्हि का वार्ता ?, तत आह-कल्पते तस्यां स्थाल्यां शुद्धमशनादि राद्धं, यदि 'कल्पे' प्रक्षालने 'त्रिगुणे' त्रिसङ्घये कृते सति राध्यति, न शेषकालम् । एतदेव भावयति
dain Education International
For Personal & Private Use Only
www.jainelibrary.org