________________
पिण्डनिर्युतेर्मलयगिरीयावृत्तिः
॥ ८६ ॥
आहा कम्मियभायणपरफोडण काय अकयए कप्पे । गहियं तु सुहुमपूई घोषणमाईहिं परिहरणा ॥ २६३ ॥
व्याख्या - यंत्र भाजने गृहीतमाधाकर्म्म तस्मिन् भाजने आधा कर्म्मपरित्यागानन्तरं ' प्रस्फोटनं कृत्वा ' हस्तेनास्फालनादिना सर्वानध्याधा कम्र्म्मावयवानपसार्य अकृते 'कल्पे' कल्पत्रये यद् गृहीतं तत्सूक्ष्मपूतिर्भवति, कतिपयोद्धरितसूक्ष्माधाकर्मावयवमिश्रणसम्भवात् तस्य च सूक्ष्मपूतेः परिहरणं धावनादिभिः किमुक्तं भवति ? - पात्रस्याधाकर्मिकपरित्यागानन्तरं कल्पत्रयधावनेन प्रक्षालनं क्रियते तर्हि सूक्ष्मपूतिर्न भवति, तत एवं सूक्ष्मपूतेः परिहरणमपि घटते, तस्मादिदमेव सूक्ष्मपूतिस्वरूपमुच्यतामिति भावः, तदेतदयुक्तं यत इयं बादरपूतिरेव, तथाहि - गृहीतोऽस्ति तस्याधाकर्मणः सत्कैः स्थूलैः सिक्याद्यवयवैः । तन्मिश्रं सत्कथं स सूक्ष्मपूति: ? । किश्च -
धोयंपि निरावयवं न होइ आहच्च कम्मगहणमि । न य अदव्वा उ गुणा भन्नई सुद्धी कओ एवं ? ॥ २६४ ॥
व्याख्या — कदाचित् 'कर्मग्रहणे ' आधाकर्मिकग्रहणे सति तत्परित्यागानन्तरं पश्चात् ' धौतमपि प्रक्षालितमपि पात्रं सर्वथा निरवयवं भवति, पश्चादपि गन्धस्योपलभ्यमानत्वात्, अथ गन्ध एव केवल उपलभ्यते न तु तदवयवः कश्चिदस्तीति ब्रूषे, तत आह-न च ' अद्रव्या: ' द्रव्यरहिताः 'गुणाः ' गन्धादयः सम्भवन्ति, ततो गन्धोपलम्भादवश्यं तत्र धौतेऽपि केचन सूक्ष्मा अवयवा द्रष्टव्याः, ततो भण्यते-' एवमपि ' अपिरत्र सामर्थ्याद्गम्यते भवत्परिकल्पितप्रकारेणापि कुतः सूक्ष्मपूतेः 'शुद्धिः ' परिहारो ?, नैव कथञ्चन इति भावः, तस्मात्पूर्वोक्त एव सूक्ष्मपूतिः, तस्य च प्रज्ञापनामात्रं, न तु परिहरणं कर्त्तुं शक्यमिति स्थितं । ननु यदि स परमार्थतः सूक्ष्मपूतिस्ततस्तस्यापरिहारे नियमादशुद्धिः प्राप्नोति, सोऽपि च सूक्ष्मपूतिः सकललोकव्यापीष्यते, गन्धादिपुद्गलानां क्रमेण सकललोकव्यापनसम्भ
Jain Education International
For Personal & Private Use Only
३ पूतिदोषे सूक्ष्मपूते रशक्यपरिहार्यता
॥ ८६ ॥
wwwww.jainelibrary.org