________________
व्याख्या-इन्धनान्यवयवाः सूक्ष्मा ये धूमेन सहादृश्यमाना गच्छन्ति, तथा धूमो बाष्पोऽन्नगन्धश्च, एते सर्वेऽपि प्रसरन्त: किल सकलमपि लोकं स्पृशन्ति, तत्पुद्गलानां सकलमपि लोकं यावद्गमनसम्भवात् , ततस्तवाभिप्रायेण सर्वमपि पूतिरापद्यते, तथा च सति साधोः कथं शुद्धिः? इति । अत्र परः प्रागुक्तविरोध दर्शयन् स्वपक्षं समर्थयति
नणु सुहूमपूइयस्सा पुबुदिट्ठस्सऽसंभवो एवं । इंधणधूमाईहिं तम्हा पूइत्ति सिद्धमिणं ॥ २६० ॥
व्याख्या-ननु यदीन्धनाग्यवयवादिभिः पूतिनं भवेत्, एवं सति तर्हि पूर्वोदिष्टस्य 'भावमि उ बायरं मुहुर्म' इत्येवमुक्तस्य सूक्ष्मपूतेरसम्भवः प्रामोति, अन्यस्य सूक्ष्मपूतेरभावात, तस्मात्सिद्धमिदं यदुत इन्धनधूमादिभिः सम्मिश्रं पूतिः सूक्ष्मपूतिरिति । अत्र गुरुराह
चोयग इंधणमाईहिं चउहिवी सुहुमपूइयं होइ । पन्नवणामित्तमियं परिहरणा नत्थि एयस्स ॥ २६१ ॥
व्याख्या-'हे चोदक!' प्रेरक ! 'इन्धनादिभिः' इन्धनाग्न्यवयवधूमबाष्पगन्धैश्चतुर्भिरपि स्पृष्टं सूक्ष्मपूतिर्भवति, नात्र कश्चिद्विवादः, एनामेव च सूक्ष्मपूतिमधिकृत्य प्रागुक्तं भावंमि उ बायरं सुहुमं' इति, केवलमिदं सूक्ष्मपूतित्वेन भणनं प्रज्ञापनामात्रं, परिहरणं पुनस्तस्याः-सूक्ष्मपूतेनास्ति, अशक्यत्वात् ।। एतदेव प्रपञ्चयति
सज्झमसझं कज्जं सझं साहिज्जए न उ असज्झं । जो उ असझं साहइ किलिस्सइ न तं च साहेई ॥२६२॥ ____ व्याख्या-इह द्विविधं कार्य-साध्यमसाध्यं च शक्यमशक्यं चेत्यर्थः, तत्र साध्यं साध्यते न त्वसाध्यं, यस्त्वसाध्यं युष्मादृशः साधयति स नियमात् क्लिश्यते, न च तत्कार्य साधयति, अविद्यमानोपायत्वात्, एषोऽपि चानन्तरोक्तः सूक्ष्मपूतिरशक्यपरिहारः, ततो न परिहियते । सम्पति परो 'बायर्न मुहुमं 'ति समर्थयमानोऽपरं सूक्ष्मपूतिं तस्य परिहरणं च शक्यं प्रतिपादयति
999999999999999999999999999999999
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org