________________
३ प्रतिदोघे
पिण्डनियु
तेर्मलयागरीयाष्टत्तिः ॥८५॥
| ३ पूतिदोषे बादरा पू. तिः सूक्ष्मपूते रसाध्यता
पूतिः, अनेन 'संकमणं ति व्याख्यातं, तथा अङ्गारेषु' निर्दूमाग्निरूपेषु 'वेसने ' वेसनग्रहणमुपलक्षणं तेन वेसनहिङ्गाजीरकादौ प्रक्षिप्ते। सति यो धूम उच्छलति स वेसनाङ्गारधूम इति ज्ञातव्यं, पूर्वगाथायां धूम इत्यस्य पदस्यायमर्थो भावनीय इत्यर्थः । वेसनशब्दस्य च व्यस्तः सम्बन्ध आपत्वात्, अङ्गारादीनां च मध्ये एक द्वे त्रीणि वाऽऽधाकर्मिकाणि द्रष्टव्यानि, अनेन च धूमेन या व्याप्ता स्थाली तक्रादिक वा तदपि पूतिः । उक्ता बादरपूतिः, अथ सूक्ष्मपूतिमाह
इंधणधूमेगंधेअवयवमाईहिं सुहुमपूई उ । सुंदरमेयं पूई चोयग भणिए गुरू भणइ ॥ २५७ ॥ , व्याख्या-अत्रैकारद्वयस्य छन्दोऽर्थत्वादादिशब्दस्य व्यत्ययान्मकारस्य चालाक्षणिकत्वादेवं निर्देशो द्रष्टव्यः-'इन्धनधूमगन्धाद्यवयवैः' इति, इन्धनग्रहणं चोपलक्षणं, ततोऽङ्गारा अपि गृह्यन्ते, आदिशन्देन च बाष्पपरिग्रहः, ततोऽयमर्थः-इन्धनाङ्गारावयवधूमगन्धबाष्पैराधाकर्मसम्बन्धिभिः सम्मिश्रं यत् शुद्धमशनादिकं तत् सूक्ष्मपूतिः । एषा च किल सूक्ष्मपूतिर्न आगमे निषिध्यते, ततश्चोदक आह-सुन्दरं' युक्तमेनां पूर्ति वर्जयितुं, तल्कि नागमे निषिध्यते ?, एवं परेणोक्ते गुरुभणति
इंधनधूमेगंधेअवयवमाई न पूइयं होइ । जेसिं तु एस पूई सोही नवि विज्जए तेसिं ॥ २५८ ॥
व्याख्या-अत्रापि पदयोजना मागिव, ततोऽयमर्थः-इन्धनाङ्गारावयवधूमगन्धबाष्पैराधाकर्मसम्बन्धिभिर्मिश्रं पूतिनं भवति, येषां तु मतेन पूतिर्भवति तेषां मतेन साधोः शुद्धिः सर्वथा न विद्यते । एतदेव भावयति
इंधनअगणीअवयव धूमो बप्फो य अन्नगंधो य । सव्वं फुसंति लोयं भन्नइ सव्वं तओ पूई ॥ २५९ ॥
॥५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org