SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ णस्य प्रतित्वं भावनीयं, तत्र चुल्युखाविषये कल्प्याकल्प्यविधिरनन्तरमेवोक्तो दारुहस्तके चाधाकर्मणि पूतिरूपे वा स्वयोगेन स्थाल्या बहिष्कृते स्थाल्यां स्थितमशनादि कल्पते, न तु तेन सम्मिश्रमिति । सम्पति 'दब्बी छूढे य' इति व्याचिख्यासुराह दव्वीछुढेत्ति जं वुत्तं, कम्मदव्वीऍ जं दए । कम्मं घट्टिय सुद्धं तु, घट्टए हारपूइयं ॥ २५४ ॥ व्याख्या-'दव्वी छूढे ' इति यत् प्रागुक्तं, तस्यायमर्थः-'कर्मदा' आधार्मिकदा यत् शुद्धमप्यशनादिकं घट्टयित्वा ददाति तद् 'आहारपूतिः' भक्तपूतिः । सा चेद्दवी स्थाल्याः सकाशान्निष्काशिता तर्हि स्थाल्याः सत्कं कल्पते, यद्वा मा भूदाधाकम्मिकी दवी, केवलं शुद्धयाऽपि दया यदि पूर्वमाधाकर्मिक 'घट्टयित्वा' चालयित्वा पश्चादाधाकर्मावयवखरण्टितया यदपरं शुद्धमापि भक्तादिकं घट्टयति घट्टयित्वा च ददाति तदप्याहारपूतिः । अस्यां च दा स्थाल्या निष्काशितायामपि पाश्चात्यं स्थालीभक्तं न कल्पते, आधाकावयवमिश्रितत्वात् । 'डाए' इत्याद्युत्तरार्द्ध व्याचिख्यासुराह अत्तट्ठिय आयाणे डायं लोणं च कम्म हिंगुं वा । तं भत्तपाणपूई फोडण अन्नं व जं छुहइ ॥ २५५ ॥ ___ संकामेउं कम्मं सिद्धं जं किंचि तत्थ छूढं वा । अंगारधूमि थाली वेसण हेट्ठा मुणीहि धूमो ॥ २५६ ॥ | व्याख्या-आत्मार्थम् 'आदाने ' तक्रादिपाकारम्भकरणरूपे सति यदाधाकर्मिकं 'डाय शाकं यदिवा लवणं यद्वा हिगुः अन्यद्वा स्फोटनं राजिकाजीरकादि तत् तक्रादिकं तेन सम्मिश्रं भक्तपानपूतिः, एतेन 'डाए लोणे हिंगू फोडणं' इति व्याख्यातं । तथा यस्यां स्थाल्यां| |राद्धमाधाकर्म तदन्यत्र संक्रमय्य-प्रतिक्षिप्य तस्यामेव स्थाल्यामकृतकल्पत्रयायां यदात्मार्थ सिद्धं किञ्चित् यद्वा तत्र प्रक्षिप्तं तदपि भक्तपान Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy