SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ व्याख्या-'भावे भावविषया पूतिर्द्विधा, तद्यथा-बादरा सूक्ष्मा च, सूत्रे च नपुंसकनिर्देशः प्राकृतत्वात् , तत्र सक्ष्मां भावपूतिमुपरि वक्ष्ये, बादरा पुनर्द्विधा, तद्यथा 'उपकरणे उपकरणविषया 'भक्तपाने भक्तपानविषया, तत्र भक्तपानपूर्ति सामान्यतो व्याचिख्यासुराह ___चुल्लुक्खलिया डोए दव्वीछूढे य मीसगं पूइं । डाए लोणे हिंगू संकामण फोडणे धूमे ॥ २५० ॥ | व्याख्या-'चुल्ली' प्रतीता, 'उखा' स्थाली 'डोयः बृहदारुहस्तकः, महांश्चटुक इत्यर्थः, 'दवी' लघीयान् दारुहस्तकः, एतानि । ||च सर्वाण्याधाकादिरूपाणि द्रष्टव्यानि, सर्वत्रापि च तृतीयार्थे सप्तमी, ततोऽयमर्थः- एतैः सम्मिश्रं शुद्धमपि यदशनादि तत् पूतिः तत्र चुल्लयुखाभ्यां मिश्रिताभ्यां कृत्वा रन्धनेन यद्वा तत्र स्थापनेन, तथा 'डायं शाकं लवणं हिङ्ग च प्रतीतम्, एतैराधाकर्मिकैः सम्मिश्रं पूतिः, तथा 'संक्रामणस्फोटनधूमः' इति, तत्र संक्रामणम्-आधाकर्मभक्तादिखरण्टिते स्थाल्यादौ शुद्धस्याशनादेः पचनं |मोचनं वा, यद्वा दारुहस्तेनाधाकर्मणाऽन्यत्र स्थाल्यां सञ्चारणं, स्फोटनम्-आधाकर्मणा राजिकादिना संस्कारकरणं धूमः-हिग्वादिसत्को वघारः । एनामेव गाथां व्याचिख्यासुः प्रथमत उपकरणशब्दं व्याख्यानयति सिझंतस्सुवयारं दिजंतस्स व करेइ जं दव्वं । तं उवकरणं चुल्ली उक्खा दवी य डोयाई ॥ २५१ ॥ व्याख्या-यच्चुल्यादिकं सिद्धयतोऽन्नस्य, यद्वा यदादिकं दीयमानस्य भक्तस्योपकारं करोति तच्चुल्यादिकं दादिकं च " उपकरणम्' इत्युच्यते, उपक्रियते अनेनेत्युपकरणमितिव्युत्पत्तेः । तत्र चुल्युखयोः स्थितमशनादिकमाश्रित्य कल्प्याकल्प्यविधिमाह Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy