________________
२ औदेशि
पिण्डनियुमलयगि- रीयावृत्तिः
॥८२॥
व्याख्या--यत् सामान्यतो द्रव्यं यद्वा-यथा क्षेत्रनिर्धारणेन वा भूयोऽपि कृतं दास्यामीत्युक्ते तथैव कृतं चेद्ददाति न कल्पते, तथाऽकृतं तु भूयोऽपि पाकादारतः कल्पते, यत्तु निर्धारितक्षेत्रकालव्यतिरेकेण पच्यते तन्न दातुं सङ्कल्पितमिति कल्पते, यत्तु क्षेत्रका- के कर्मभेदः लनिर्धारणमविवक्षित्वैव सामान्यतो भूयोऽपि पक्त्वा दास्यामीति सङ्कल्पितं तदन्तर्बहिर्वा श्वस्तने परतरदिने वा न कल्पते । अथ
३ पूतिदोषे कम्मौदेशिकं कृतपाकमात्मार्थीकृतमपि यावदर्थिक मुक्त्वा शेषमनिष्टं-नानुज्ञातं तीर्थकरगणधरैः, यावदर्थिकं त्वात्मार्थीकृतं कल्पते । अ
तद्भदौ थाऽऽधाकम्भिककोदेशिकयोः कः परस्परं प्रतिविशेषः?, उच्यते, यत् प्रथमत एव साध्वर्थ निष्पादितं तदाधाकर्म, यत् प्रथमतः सद् भूयोऽपि पाककरणेन संस्क्रियते तत्कम्मौदेशिकमिति । उक्तमौदेशिकद्वार, सम्पति पूतिद्वारं वक्तव्यं-पूतिश्चतुर्दा, तयथा-नामपूतिः स्थापनापूर्तिद्रव्यपूतिर्भावपूतिश्च, तत्र नामस्थापने सुज्ञानत्वादनादृत्य द्रव्यभावपूती प्रतिपादयति
पूईकम्मं दुविहं दव्वे भावे य होइ नायव्वं । दव्वंमि छगणधम्मिय भावमि य बायरं सुहुमं ॥ २४३ ॥
व्याख्या-'पूतिकर्म' पूतीकरणं द्विधा, तद्यथा-'द्रव्ये द्रव्यविषयं 'भावे' भावविषयं, तत्र द्रव्ये 'छगणधार्मिकः' गोमयोपलक्षितो धार्मिको दृष्टान्तः । भावविषयं पुनर्दिधा-बादरं सूक्ष्मं च, इह यद् द्रव्यस्य पूतिकरणं तद् द्रव्यपूतिः, येन पुनद्रव्येण भावस्य । पूतिकरणं तद् द्रव्यमप्युपचाराद् भावपूतिः, ततो वक्ष्यमाणमुपकरणादि भावपूतित्वेनाभिधीयमानं न विरुध्यते । तत्र प्रथमतो द्रव्यपूतिलक्षणमाह
गंधाइगुणसमिद्धं जं दव्वं असुइगंधदव्वजुयं । पूइत्ति परिहरिज्जइ तं जाणसु दव्वपूइत्ति ॥ २४४ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org